महाभारतसूक्तयः (बुद्धिमान्)

विकिसूक्तिः तः
Jump to navigation Jump to search

धर्ममर्थं च कामं च त्रीनेतान् योऽनुपश्यति॥ आदि. १०४/२०॥

अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्।
कामं कामानुबन्धं च विपरीतान् पृथक् पृथक्॥ आदि. १०४/२१॥

यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्॥ आदि. १०४/२२॥

पुरतः कृच्छ्रकालस्य धीमाञ्जाग्रति पूरुषः।
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवेति कर्हिचित्॥ आदि. २३१/१॥

यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते।
स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्॥ आदि. २३१/२॥

सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ॥ सभा. १३/३४॥

विमृश्य सम्यक् च धिया कुर्वन् प्राज्ञो न सीदति॥ आदि. १३/३५॥

न तेन स्थविरो भवति येनास्य पलितं शिरः।
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः॥ वन. १३३/११॥

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः।
ॠषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ वन. १३३/१२॥

अनर्थकेषु को भावः पुरुषस्य विजानतः॥ वन. १४९/३९॥

प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः॥ वन. १९१/२८॥

बुद्धिमान् वृद्धसेवया॥ वन. ३१३/४८॥

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम्॥ उद्योग. ३४/४३॥

प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः सन्ति न चौषधानि।
न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः॥ उद्योग. ३७/५८॥

अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्।
दीर्घो बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः॥ उद्योग. ३८/८॥

प्रयोजनेषु ये सक्ता न विशेषेषु भारत।
तानहं पण्डितं मन्ये विशेषा हि प्रसङ्गिनः॥ उद्योग. ३८/४४॥

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः।
अतीते कार्यशेषज्ञोः नरोऽर्थैर्न प्रहीयते॥ उद्योग. ३९/५४॥

तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति॥ उद्योग. ७२/३४॥

न हि बुद्ध्यान्वितः प्राज्ञो नीतिशास्त्रविशारदः।
निमज्जत्यापदं प्राप्य महतीं दारुणामपि॥ शान्ति. १३८/४०॥

सर्वत्र रमते प्राज्ञः सर्वत्र च विराजते।
न विभीषयते कश्चिद् भीषितो न बिभेति च॥ शान्ति. १३९/८७॥

नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते।
दाक्ष्येण कुर्वतः कर्म संयमात् प्रतितिष्ठति॥ शान्ति. १३९/८८॥

ये तु बुद्ध्या बलिनस्ते भवन्ति बलीयसाः॥ शान्ति. १५६/१२॥

बुद्धिर्बुद्धिमतो याति तृणेष्विव हुताशनः॥ शान्ति. १५७/११॥

सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः॥ शान्ति. १७४/३९॥

किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात्॥ शान्ति. १७७/२१॥

प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले॥ शान्ति. २२६/१९॥

दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति॥ शान्ति. २३५/१९॥

संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः।
प्राज्ञस्यानन्तरासिद्धिरिहलोके परत्र च॥ शान्ति. २३५/२४॥

क्रियावाञ्श्रद्दधानो हि दान्तः प्राज्ञोऽनसूयकः।
धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम्॥ शान्ति. २३५/२८॥

मनोरथरथं प्राप्य इन्द्रियाख्य हयं नरः।
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान्॥ शान्ति. २९१/१॥

प्राज्ञ एको रमते ब्राह्माणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते।
प्राज्ञ एको बलवान् दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति॥ शान्ति. २९९/४२॥

राज्यं पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे।
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम॥ आश्व. ३३/४॥

बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्॥ आश्व. ३३/७॥

अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः।
तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः॥ आश्व. ३४/३॥