सामग्री पर जाएँ

महाभारतसूक्तयः (ब्रह्मविद्या)

विकिसूक्तिः तः

नैतद् ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यतीव।
बुद्धौ विलीने मनसि प्रचिन्त्या विद्या हि सा ब्रह्मचर्येण लभ्या॥ उद्योग. ४४/२॥

अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्।
यां प्राप्यैनां मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या॥ उद्योग. ४४/४॥

अस्मींल्लोके वै जयन्तीह कामान् ब्राह्मी स्थितिं ह्यनुतितिक्षमाणाः।
त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्त्वसंस्थाः॥ उद्योग. ४४/७॥

कालेन पादं तथार्थं ततश्च पादं गुरुयोगतश्च।
उत्साहयोगेन च पादमृच्छेच्छास्त्रेण पादं च ततोऽभियाति॥ उद्योग. ४४/१६॥

सा प्रतिष्ठा तदमृतं लोकास्तद् ब्रह्म तद् यशः।
भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र हि॥ उद्योग. ४४/३०॥

एष एकायनः पन्था येन यान्ति मनीषिणः।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जति॥ उद्योग. ६९/१५॥

इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः।
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्॥ उद्योग. ६९/१८॥

एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्।
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः॥ उद्योग. ६९/२०॥

आगमाधिगमाद् योगाद् वशी तत्त्वे प्रसीदति॥ उद्योग. ६९/२१॥

यदा चायं न विभेति यदा चास्मान्न बिभ्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ शान्ति. २६/१४॥

यदा न भावं कुरुते सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ शान्ति. २६/१५॥

विनीतमानमोहश्च बहुसङ्गविवर्जितः।
तदाऽऽत्मज्योतिषः साधोर्निर्वाणमुपपद्यते॥ शान्ति. २६/१६॥

कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत।
नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति॥ शान्ति. २०१/१२॥

एभिर्विमुक्तः परमाविवेश एतत् कृते कर्म विधिः प्रवृत्तः॥ शान्ति. २०१/१३॥

आत्मादिभिः कर्मभिरिन्ध्यमानो धर्मे प्रवृत्तो द्युतिमान् सुखार्थी।
परं हि तत् कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवैति॥ शान्ति. २०१/१४॥

प्रजाः सृष्टा मनसा कर्मणा च द्वावेवैतौ सत्यपथौ लोकजुष्टौ।
दृष्टं कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति॥ शान्ति. २०१/१५॥

स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा।
ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम्॥ शान्ति. २०१/१६॥

यद् यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत्।
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम्॥ शान्ति. २०१/२१॥

वाचा तु यत् कर्म करोति किंचिद् वाचैव सर्वं समुपाश्नुते तत्।
मनस्तु यत् कर्म करोति किंचिन्मनःस्थ एवायमुपाश्नुते तत्॥ शान्ति. २०१/२२॥

यथा यथा कर्मगुणं फलार्थी करोत्ययं कर्मफले निविष्टः।
तथा तथायं गुणसम्प्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति॥ शान्ति. २०१/२३॥

मत्स्यो यथास्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म।
शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यति वै परमः शरीरी॥ शान्ति. २०१/२४॥

निवर्तयित्वा रसनां रसेभ्यो घ्राणं च गन्धाच्छ्रवणौ च शब्दात्।
स्पर्शात् त्वचं रूपगुणात् तु चक्षुस्ततः परं पश्यति स्वं स्वभावम्॥ शा. २०२/५॥

यथा प्रदीप्तः पुरतः प्रदीपः प्रकाशमन्यस्य करोति दीप्यन्।
तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव॥ शान्ति. २०२/९॥

यथार्चिषोऽग्नेः पवनस्य वेगो मरीचयोऽर्कस्य नदीषु चापः।
गच्छन्ति चायान्ति च संचरन्त्यस्तद्वच्छरीराणि शरीरिणां तु॥ शान्ति. २०२/११॥

यथा च कश्चित् परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे।
तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत्॥ शान्ति. २०२/१२॥

तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात्।
तद्वत् सबुद्धिः सममिन्द्रियात्मा बुधःपरं पश्यति तं स्वभावम्॥ शान्ति. २०२/१३॥

उत्पत्तिर्वृद्धिव्यय संनिपातैर्न युज्यतेऽसौ परमः शरीरी।
अनेन लिङ्गेन तु लिङ्गमन्यद् गच्छत्यदृष्टः फलसंनियोगात्॥ शान्ति. २०२/१५॥

यथा समीपे ज्वलतोऽनलस्य संतापजं रूपमुपैति कश्चित्।
न चान्तरं रूपगुणं बिभर्ति तथैव तद् दृश्यति रूपमस्य॥ शान्ति. २०२/१७॥

तथा मनुष्यः परिमुच्य कायमदृश्यमन्यद् विशते शरीरम्।
विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम्॥ शान्ति. २०२/१८॥

महत्सु भूतेषु वसन्ति पञ्च पञ्चेन्द्रियार्थाश्च तथेन्द्रियाणि।
सर्वाणि चैतानि मनोऽनुगानि बुद्धिं मनोऽन्वेति मतिः स्वभावम्॥ शान्ति. २०२/२१॥

यदिन्द्रियैस्तूपहितं पुरस्तात् प्राप्तान् गुणान् संस्मरते चिराय।
तेष्विन्द्रियेषूपहतेषु पश्चात् स बुद्धिरूपः परमः स्वभावः॥ शान्ति. २०३/१॥

श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना।
सर्वज्ञः सर्वदर्शी च सर्वज्ञस्तानि पश्यति॥ शान्ति. २०३/५॥

यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्।
ज्ञानमिन्द्रियसंयुक्तं तद्वत् प्रेत्य भवाभवौ॥ शान्ति. २०४/१॥

यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा।
तद्वत्प्रसन्नेन्द्रियत्वाज्ञेयं ज्ञानेन पश्यति॥ शान्ति. २०४/२॥

अबुद्धिरज्ञानकृता अबुद्ध्या कृष्यते मनः।
दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः॥ शान्ति. २०४/४॥

अज्ञानतृप्तो विषयेष्ववगाढो न तृप्यते।
अदृष्टवच्च भूतात्मा विषयेभ्यो निवर्तते॥ शान्ति. २०४/५॥

तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्।
निवर्तते तदा तर्षः पापमन्तगतं यदा॥ शान्ति. २०४/६॥

विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात्।
मनसा चान्यथा काङ्क्षन् परं न प्रतिपद्यते॥ शान्ति. २०४/७॥

ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः।
यथाऽऽदर्शतले प्रख्ये पश्यत्यात्मानमात्मनि॥ शान्ति. २०४/८॥

प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी।
तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना॥ शान्ति. २०४/९॥

इन्द्रियेभ्यो मनः पूर्वं बुद्धि परतरा ततः।
बुद्धेः परतरं ज्ञानं ज्ञानात् परतरं महत्॥ शान्ति. २०४/१०॥

अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः।
मनः श्रोत्रादिभिर्युक्तं शब्दादीन् साधु पश्यति॥ शान्ति. २०४/११॥

यस्तांस्त्यजति शब्दादीन् सर्वाश्च व्यक्तयस्तथा।
विमुञ्चेत् प्राकृतान्ग्रामांस्तान् मुक्त्वामृतमश्नुते॥ शान्ति. २०४/१२॥

उद्यन् हि सविता यद्वत्सृजते रश्मिमण्डलम्।
स एवास्तमपागच्छंस्तदेवात्मनि यच्छति॥ शान्ति. २०४/१३॥

अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः।
प्राप्येन्द्रियगुणान् पञ्च सोऽस्तमावृत्यगच्छति॥ शान्ति. २०४/१४॥

बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते।
तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम्॥ शान्ति. २०४/१७॥

अस्पर्शनमश्रृण्वानमनास्वादमदर्शनम्।
अघ्राणमवितर्कं च सत्त्वं प्रविशते परम्॥ शान्ति. २०४/१८॥

मनस्याकृतयो मग्ना मनस्त्वभिगतं मतिम्।
मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं परम्॥ शान्ति. २०४/१९॥

नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुद्ध्यते मनः।
न बुद्धिर्बुद्ध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति॥ शान्ति. २०४/२०॥

दुःखमर्था हि युज्यन्ते पालने न च ते सुखम्।
दुःखेन चाघिगम्यन्ते नाशमेषां न चिन्तयेत्॥ शान्ति. २०५/८॥

ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः।
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते॥ शान्ति. २०५/९॥

सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते।
अपरादभिनिःसृत्य गिरेः श्रृङ्गादिवोदकम्॥ शान्ति. २०५/११॥

यदा निर्गुणमप्नोति ध्यानं मनसि पूर्वजम्।
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा॥ शान्ति. २०५/१२॥

मनस्त्वपहृतं पूर्वमिन्द्रियार्थनिदर्शकम्।
न समक्षगुणापेक्षि निर्गुणस्य निदर्शकम्॥ शान्ति. २०५/१३॥

सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः।
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते॥ शान्ति. २०५/१४॥

यथा महान्ति भूतानि निवर्तन्ते गुणक्षये।
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते॥ शान्ति. २०५/१५॥

यदा मनसि सा बुद्धिवर्ततेऽन्तरचारिणी।
व्यवसायगुणोपेता तदा सम्पद्यते मनः॥ शान्ति. २०५/१६॥

गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः।
तदा सर्वान् गुणान् हित्वा निर्गुणं प्रतिपद्यते॥ शान्ति. २०५/१७॥

अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्॥ शान्ति. २०५/१८॥

तपसा चानुमानेन गुणैर्जात्या श्रुतेन च।
निनीषेत् परमं ब्रह्म विशुद्धेनान्तरात्मना॥ शान्ति. २०५/१९॥

गुणहीनो हि तं मार्गं बहिः समनुवर्तते।
गुणाभावात् प्रकृत्या वा निस्तर्क्यं ज्ञेयसम्मितम्॥ शान्ति. २०५/२०॥

नैर्गुण्याद् ब्रह्म चाप्नोति सगुणत्वान्निवर्तते।
गुणप्रचारिणी बुद्धिर्हुताशन इवेन्धने॥ शान्ति. २०५/२१॥

यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः।
तथा हि परमं ब्रह्म विमुक्तं प्रकृते परम्॥ शान्ति. २०५/२२॥

पुरुषः प्रकृतिर्बुद्धिविषयाश्चेन्द्रियाणि च।
अहंकरोऽभिमानश्च समूहो भूतसंज्ञकः॥ शान्ति. २०५/२४॥

एतस्याद्या प्रवृत्तिस्तु प्रधानात् सम्प्रर्वते।
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति॥ शान्ति. २०५/२५॥

धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः।
रागवान् प्रकृतिं ह्येति विरक्तो ज्ञानवान् भवेत्॥ शान्ति. २०५/२६॥

यदा तैः पञ्चभिः पञ्च युक्तानि मनसा सह।
अथ तद् रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम्॥ शान्ति. २०६/१॥

तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः।
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा॥ शान्ति. २०६/२॥

तद्वत् गोऽश्वमनुष्येषु तद्वद्धस्ति मृगादिषु।
तद्वत् कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः॥ शान्ति. २०६/३॥

येन येन शरीरेण यद्यत्कर्म करोत्ययम्।
तेन तेन शरीरेण तत् तत् फलमुपाश्नुते॥ शान्ति. २०६/४॥

यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी।
तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी॥ शान्ति. २०६/५॥

ज्ञानपूर्वा भवेल्लिप्सा लिप्सापूर्वाभिसंधिता।
अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम्॥ शान्ति. २०६/७॥

अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः।
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते॥ शान्ति. २०६/१३॥

तद् ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम्।
तद् गत्वा कालविषयाद् विमुक्ता मोक्षमाश्रिताः॥ शान्ति. २०६/१४॥

गुणेष्वेते प्रकाशन्ते निर्गुणत्वात् ततः परम्।
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते॥ शान्ति. २०६/१५॥

अदृष्टतोऽनुपायाच्च प्रतिसंधेश्च कर्मणः।
न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत् पदम्॥ शान्ति. २०६/२०॥

विषयेषु च संसार्गाच्छाश्वतस्य च दर्शनात्।
मनसा चान्यदाकाङ्क्षन् परं न प्रतिपद्यते॥ शान्ति. २०६/२१॥

गुणान् यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः।
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद् गुणार्थिनः॥ शान्ति. २०६/२२॥

गुणैर्यस्त्ववरैर्युक्तः कथं विद्यात् परान् गुणान्।
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम्॥ शान्ति. २०६/२३॥

सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः।
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्॥ शान्ति. २०६/२४॥

ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा।
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते॥ शान्ति. २०६/२५॥

बुद्धि प्रवीणो मनसा समृद्धो निराशिषं निर्गुणमभ्युपैति।
परं त्यजन्तीह विलोड्यमाना हुताशनं वायुरिवेन्धस्थम्॥ शान्ति. २०६/२६॥

अव्यक्तात्मा पुरुषो व्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले।
तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वाऽऽवर्तते कामरूपः॥ शान्ति. २०६/२८॥

सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहं प्राप्तः पञ्चभूताश्रयः स्यात्।
नासामर्थ्याद् गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन॥ शान्ति. २०६/२९॥

दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः।
तथा ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम्॥ शा.२०६/३१॥

अनागतं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवनिधानमव्ययम्।
सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत् परममृतत्वमश्नुते॥ शान्ति. २०६/३२॥