महाभारतसूक्तयः (ब्राह्मणः)

विकिसूक्तिः तः
Jump to navigation Jump to search

वाचि वीर्यं च ब्राह्मणस्य विशेषतः॥ सभा. २१/४६॥

ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह।
उदीर्णे दहतः शत्रून् वनानीवाग्नि मारुतौ॥ वन. २६/१०॥

ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदति॥ वन. २६/१६॥

द्विजातीनामृतं धर्मो ह्येकश्चैवैकलक्षणः।
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः॥ वन. १५०/३४॥

याजनाध्यापनं विप्रे धर्मश्चैव प्रतिग्रहः॥ वन. १५०/३५॥

तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्॥ वन. १५०/५१॥

सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा।
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः॥ वन. १८०/२१॥

यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः।
वृथा जातिस्तदाऽऽयुष्मान् कृतिर्यावन्नविद्यते॥ वन. १८०/३०॥

तावच्छूद्रसमो ह्येष यावद् वेदे न जायते॥ वन. १८०/३५॥

कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते।
संकरस्त्वत्र नातेन्द्र बलवान् प्रसमीक्षितः॥ वन. १८०/३६॥

यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते।
तं ब्राह्मणमहं पूर्वमुक्तवान् भुजगोत्तम॥ वन. १८०/३७॥

मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः। वन. २००/७८॥

यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः।
यो वदेदिह सत्यानि गुरुं संतोषयेत च॥ वन. २०६/३३॥

हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः॥ वन. २०६/३४॥

जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः।
काम क्रोध वशौ यस्य तं देवा ब्राह्मणं विदुः॥ वन. २०६/३५॥

ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा॥ वन. २०७/२५॥

स्वाध्याय एषां देवत्वं तप एषां सतामिव।
मरणं मानुषो भावः परिवादोऽसतामिव॥ वन. ३१३/५०॥

अधीत्य ब्राह्मणो वेदान् याजयेत यजेत् वा॥ विराट. ५०/५॥

भूतानां प्राणिनः श्रेष्ठाः पाणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेश्वपि द्विजातयः॥ उद्योग. ६/१॥

अधीयीत ब्राह्मणो वै यजेत दद्यादीयात् तीर्थमुख्यानि चैव।
अध्यापयेद् याजयेच्चापि याज्यान् प्रतिग्रहान् वा विहितान् प्रतीच्छेत्॥ उ. २९/२३॥

वेदैः पश्यन्ति ब्राह्मणाः॥ उद्योग. ३४/३४॥

ब्राह्मणा वेदबान्धवाः॥ उद्योग. ३४/३८॥

अश्रान्तः स्यादनादाता सम्मतो निरुपद्रवः।
शिष्टो न शिष्टवत् स स्यात् ब्राह्मणो ब्रह्मवित् कविः॥ उद्योग. ४२/३८॥

अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ।
ते दुर्धर्षा दुष्प्रकम्प्यास्ता विद्याद् ब्रह्मणस्तनुम्॥ उद्योग. ४२/३९॥

य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया॥ उद्योग. ४३/४९॥

सत्ये वै ब्राह्मणस्तिष्ठंस्तद् विद्वान् सर्वविद् भवेत्॥ उद्योग. ४३/६२॥

स्वाध्यायो व्रतचर्याथ ब्राह्मणानां परं धनम्॥ उद्योग. १८५/११॥

वाग्भिः शूरा द्विजातयः॥ द्रोण. १५८/२३॥

सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जया जयौ॥ कर्ण. १६/२८॥

याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः।
लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि॥ कर्ण.३२/४६॥

बलं तु वाचि द्विजसत्तमानाम्॥ कर्ण. ७०/१२॥

अदान्तो ब्राह्मणोऽसाधुः॥ सौप्तिक. ३/२०॥

तपो यज्ञस्तथा विद्या भौक्ष्यमिन्द्रियसंयमः।
ध्यानमेकान्तशीलत्वं तुष्टिर्ज्ञानं च शक्तितः॥ शान्ति. २३/८॥

ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका॥ शान्ति. २३/९॥

ॠषीणां समयं शश्वद् ये रक्षन्ति धनंजय।
आश्रिताः सर्वधर्मज्ञा देवास्तान् ब्राह्मणान् विदुः॥ शान्ति. २६/४॥

यथा दारुमयो हस्ती यथा चर्ममयो मृगः।
ब्राह्मणश्चानधीयानस्त्रयस्ते नाम बिभ्रति॥ शान्ति. ३६/४६॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा॥ शान्ति. ३६/४७॥

ब्राह्मणास्तात लोकेऽस्मिनर्चनीयाः सदा मम।
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः॥ शान्ति. ३९/२॥

जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः।
वेदाध्ययनसम्पन्नः षट्सुकर्मस्ववस्थितः॥ शान्ति. १८९/२॥

शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः।
नित्यव्रती सत्यप्रियः स वै ब्राह्मण उच्यते॥ शान्ति. १८९/३॥

सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते।
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः॥ शान्ति. २१४/२॥

तपसा वा सुमहता विद्यानां पारणेन च।
ईज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः॥ शान्ति. २३४/९॥

याज्यतः शिष्यतो वापि कन्याया वा धनं महत्।
यदाऽऽगच्छेत् यजेद् दद्यान्नैकोऽश्नीयान् कथंचन॥ शान्ति. २३४/१२॥

असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः।
सद्भ्य आगत विज्ञानः शिष्टः शास्त्रविचक्षणः॥ शान्ति. २३५/४॥

धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः॥ शान्ति. २३५/८॥

कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्।
अग्नींश्च ब्राह्मणांश्चार्चेद् देवताः प्रणमेत् च॥ शान्ति. २३५/९॥

वर्जयेदुशतीं वाचं हिंसां चाधर्मसंहिताम्।
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति॥ शान्ति. २३५/२९॥

अनुत्तरीयवसनमनुपस्तीर्णशायिनम्।
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३०॥

द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३१॥

येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३२॥

अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः।
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः॥ शान्ति. २६९/३३॥

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः॥ शान्ति. २९६/२५॥

न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातनाम्॥ अनुशासन.१/२७॥

तपः श्रुतं च योनिश्चाप्येतद् ब्राह्मण्यकारणम्।
त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः॥ अनु.१२१/७॥

अन्धं स्यात् तम एवेदं न प्रज्ञायेत किंचन।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते॥ अनु. १२१/९॥

मुखतो ब्राह्मणाः सृष्टास्तस्मात् ते वाग्विशारदाः॥ अनु. १४१/२९-३० दा. पा.॥

स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः।
कर्माण्यध्यापनं चैव याजनम् च प्रतिग्रहः।
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः॥ अनु. १४१/२९-३० दा. पा.॥

विक्रयो रस धान्यानां ब्राह्मणस्य विगर्हितः॥ अनु. १४१/२९-३० दा. पा.॥

उपवासः सदा धर्मो ब्राह्मणस्य न संशयः। अनु.१४१/३१॥

तस्य धर्मक्रिया देवि ब्रह्मचर्या च न्यायतः।
व्रतोपनयनं चैव द्विजो येनोपपद्यते॥ अनु.१४१/३२॥

त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययन जीवकः।
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः॥ अनु.१४१/६६॥

कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति वै द्विजः॥ अनु.१४३/७॥

न योनिर्नापि संस्कारो न श्रुतं न च संततिः।
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम्॥ अनु.१४३/५०॥

सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते।
वृत्ते स्थितस्तु शूद्रोऽपि ब्राह्मणत्वं नियच्छति॥ अनु.१४३/५१॥

ब्राह्मः स्वभावः सुश्रोणि समः सर्वत्र मे मतिः।
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः॥ अनु.१४३/५२॥

संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना।
नित्यं स्वाध्यायिना भाव्यं न चाध्ययनजीविना॥ अनु.१४३/५६॥

तपो येषां धनं नित्यं वाक् चैव विपुलं बलम्।
प्रभवश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः॥ अनु.१५१/६॥

आशीविष विषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः।
ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः॥ अनु.१५९/३३॥

क्षात्राद् बलाद् ब्रह्मबलं वरीयोन ब्रह्मतः किञ्चिदन्यद् गरीयः॥ आश्व.९/३७॥

जितशिश्नोदरो मैत्रः शिष्टाचार समन्वितः।
वैणवीं धारयेद् यष्टिं सोदकं कमण्डलुम्॥ आश्व. ४५/२०॥

अधीत्याध्यापनं कुर्यात् तथा यजनयाजने।
दानं प्रतिग्रहं वापि षड्गुणां वृत्तिमाचरेत्॥ आश्व.४५/२१॥

त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविका।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः॥ आश्व. ४५/२२॥

अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु॥ आश्व.४५/२३॥

ब्राह्मणा हि धनार्थिनः॥ आश्व.८९/१०॥

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्।
नावमन्येत मेधावी कृशानपि कदाचन॥ आश्व. ९२ दा. पा. अ. III॥

एतत् त्रयं हि पुरुषं निर्दहेदवमानितम्॥ आश्व. ९२ दा. पा. अ. III॥

मन्युं नोत्पादयेत् तेषां न चारिष्टं समाचरेत्।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः॥ आश्व. ९२ दा. पा. अ. III॥

धर्मो जयति नाधर्मः सत्यं जयति नानृतम्।
क्षमा जयति न क्रोधः क्षमावान् ब्राह्मणो भवेत्॥ आश्व. ९२ दा. पा. अ. III॥

क्षान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम्।
तमग्य्रं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः॥ आश्व. ९२ दा. पा. अ. III॥

अग्निहोत्र व्रतपरान् स्वाध्यायनिरताञ्शुचीन्।
उपवासरतान् दान्तांस्तान् देवा ब्राह्मणा विदुः।
न जात्या पूजितो राजन् गुणाः कल्याणकारकाः॥ आश्व. ९२ दा. पा. अ. III॥