महाभारतसूक्तयः (भक्तः)

विकिसूक्तिः तः
Jump to navigation Jump to search

न हि कल्याणकृत कश्चिद् दुर्गतिं तात गच्छति॥ भीष्म. ३०/४०; गीता.६/४०॥

न मे भक्तः प्रणश्यति॥ भीष्म. ३३/३१; गीता.९/३१॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।
निर्ममो निरहंकारः समदुःखसुखः क्षमी॥ भीष्म. ३६/१३; गीता.१२/१३॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥ भीष्म. ३६/१४; गीता.१२/१४॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥ भीष्म. ३६/१५; गीता.१२/१५॥

अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥ भीष्म. ३६/१६; गीता.१२/१६॥

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥ भीष्म. ३६/१७; गीता.१२/१७॥

समः शत्रौ च मित्रे च तथा मानापमानयोः।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥ भीष्म. ३६/१८; गीता.१२/१८॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित्।
अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥ भीष्म. ३६/१९; गीता.१२/१९॥

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ भीष्म. ३६/२०; गीता.२/२०॥

सेवाऽऽश्रितेन मनसा वृत्तिहीनस्य शस्यते॥ शान्ति. २९१/२॥