महाभारतसूक्तयः (भाग्यम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दते नात्मशक्त्या।
तस्माद् दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत् कथंचित्॥ आदि. ८९/८॥

न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः।
विधिपर्यागतानर्थान् प्राज्ञो न प्रतिपद्यते॥ आदि. ११७/१०॥

दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः।
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते॥ आदि. १२२/२१॥

दिष्टस्य ग्रन्थिरनिवर्तनीया स्वकर्मणा विहितं नेह किंचित्॥ आदि. १९७/२॥

दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम्॥ आदि. १९९/१२; सभा. ४७/३६॥

विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्॥ आदि. २०३/१५॥

धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम्॥ सभा. ५७/४, १४॥

दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्।
धातुश्च वशमन्वेति पाशौरिव नरः सितः॥ सभा. ५८/१८॥

धातुर्नियोगाद् भूतानि प्राप्नुवन्ति शुभाशुभम्॥ सभा. ७६/३॥

यस्मादभावी भावी च मनुष्यः सुखदुःखयोः।
आगमे यदि वापाये न तत्र ग्लयपेन्मनः॥ वन. १७९/२६॥

दैवं पुरुषकारेण को वञ्चयितुमर्हति।
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः॥ वन. १७९/२७॥

नापदामस्ति मर्यादा न निमित्तं न कारणम्।
धर्मस्तु विभजत्यर्थमुभयोः पापपुण्ययोः॥ वन. ३१२/१॥

अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ॥ विराट. २०/३॥

चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च॥ विराट. २०/४॥

न दैवस्यतिभारोऽस्ति न चैवास्यातिवर्तनम्॥ विराट. २०/७॥

अप्राज्ञो वा पण्डव युध्यमानोऽधर्मज्ञो वा भूतिमथोऽभ्युपैति।
प्रज्ञावान् वा बुध्यमानोऽपि धर्मं संस्तम्भाद् वा सोऽपि भूतेरपैति॥ उ.२७/२१॥

मन्ये परं कर्म दैवं मनुष्यात्॥ उद्योग. ३२/१३॥

यावत् परः कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम्॥ उद्योग. ३२/१४॥

न संशयो नास्ति मनुष्यकारः॥ उद्योग. ३२/२३॥

सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम्।
कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते॥ उद्योग. ७७/८॥

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः॥ उद्योग. १७५/३३॥

दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्॥ उद्योग. १८६/१८॥

सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः॥ द्रोण. २४/२॥

युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः।
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति॥ द्रोण. २४/५॥

दैवोपसृष्टः पुरुषो यत् कर्म कुरुते क्वचित्।
कृतं कृतं हि तत्कर्म दैवेन विनिपात्यते॥ द्रोण. १५२/२६॥

यत् कर्तव्यं मनुष्येण व्यवसायवता सदा।
तत् कार्यमविशंकेन सिद्धिर्दैवे प्रतिष्ठिता॥ द्रोण. १५२/२७॥

दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि॥ द्रोण. १५२/३२॥

दिष्टे न व्यथते बुधः॥ कर्ण. २/२४॥

यस्मादभावी भावी वा भवेदर्थो नरं प्रति।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद् व्यथते बुधः॥ कर्ण. २/२५॥

दैवमेव परं मन्ये धिक् पौरुषमनर्थकम्॥ कर्ण. ९/३॥

अन्यथा चिन्तितं कार्यमन्यथा तत् तु जायते॥ कर्ण. ९/२०॥

अहो नु बलवद् दैवं कालश्च दुरतिक्रमः॥ कर्ण. ९/२१॥

दिष्टं न शक्यं व्यतिवर्तितुं वै॥ कर्ण. ३७/२५॥

विधिश्च बलवानत्र पौरुषं तु निरर्थकम्॥ शल्य. १/१७॥

भागधेय समायुक्तो ध्रुवमुत्पद्यते नरः॥ शल्य. २/४६॥

न च दैवकृतो मार्गः शक्यो भूतेन केनचित्।
घटतामपि चिरं कालं नियन्तुमिति मे पतिः॥ स्त्री.८/१९॥

अनतिक्रमणीयो हि विधी राजन् कथंचन॥ स्त्री. ८/४३॥

अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः।
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते॥ शान्ति. २८/१८॥

न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा॥ आश्व. ५३/१६॥