महाभारतसूक्तयः (भूमिः)

विकिसूक्तिः तः
Jump to navigation Jump to search

भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति।
भूमि प्रतिष्ठा भूतानां भूमिरेव परायणम्॥ भीष्म. ४/२०॥

यस्य भूमिस्तस्य सर्वं जगत् स्थावरजङ्गमम्।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम्॥ भीष्म. ४/२१॥

यथागुणबलं चापि त्रिवर्गस्य महाफलम्।
दुह्येत धेनुः कामधुग् भूमिः सम्यगनुष्ठिता॥ भीष्म. ९/७१॥

पिता भ्राता च पुत्राश्च एवं द्यौश्च नरपुङ्गव।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना॥ भीष्म. ९/७६॥

पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः।
पुमान् प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः॥ शान्ति. १९०/१५॥

अचला ह्यक्षया भूमिर्दोग्ध्री कामानिहोत्तमान्॥ अनुशासन. ६२/२॥

भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च।
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः॥ अनु. ६२/४९॥

एषा माता पिता चैव जगतः पृथिवीपते।
नानया सदृशं भूतं किंचिदस्ति जनाधिप॥ अनु. ६२/५०॥

नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः।
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः॥ अनु. ६२/९२॥

न हि भूमिप्रदानाद् वै दानमन्यद् विशिष्यते।
न चापि भूमिहरणात् पापमन्यद् विशिष्यते॥ आश्व. ९२ दा.पा.अ. VII॥

त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम्।
प्रत्यक् प्रागपि राजेन्द्र तत् तथा दक्षिणोत्तरम्।
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप॥ आश्व. ९२ दा.पा.अ. VII॥