महाभारतसूक्तयः (भ्राता)

विकिसूक्तिः तः
Jump to navigation Jump to search

ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः॥ आदि. २३१/४॥

न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्।
गुरोर्हि दीर्घदर्शित्वं यत् तच्छिष्यस्य भारत॥ अनु. १०५/३॥

अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः।
परिहारेण तद् ब्रूयाद् यस्तेषां व्यतिक्रमः॥ अनु. १०५/४॥

प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः।
श्रियाभितप्ताः कौन्तेय भेदकामांस्तथारयः॥ अनु. १०५/५॥

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः।
हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते॥ अनु. १०५/६॥

अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः॥ अनु. १०५/७॥

सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः।
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतुकम्॥ अनु. १०५/१०॥

अनुपघ्नन् पितुर्दायं जङ्घाश्रमफलोऽध्वगः।
स्वयमीहितलब्धं तु नाकामो दातुमर्हति॥ अनु. १०५/११॥

भ्रातॄणामविभक्तानामुत्थानमपि चेत् सह।
न पुत्रभागं विषमं पिता दद्यात् कदाचन॥ अनु. १०५/१२॥

न ज्येष्ठो वावमन्येत दुष्कृतः सुकृतोऽपि वा।
यदि स्त्री यद्यवरजः श्रेयश्चेत् तत् तदाचरेत्॥ अनु. १०५/१३॥

ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत॥ अनु. १०५/१६॥

स ह्येषां वृत्तिदाता स्यात् स चैतान् प्रतिपालयेत्।
कनिष्ठास्तं नमस्येरन् सर्वे छन्दानुवर्तिनः॥ अनु. १०५/१७॥

तमेव चोपजीवेरन् यथैव पितरं तथा।