महाभारतसूक्तयः (मनः)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः॥ वन. ३४/६॥

अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम्॥ उद्योग. ७५/१९॥

यतो यतो मनो दुःखात् सुखाद् वा विप्रमुच्यते। ततस्ततो नियम्यैतच्छान्तिं विन्देत वै बुधः॥ स्त्री. ३/३॥

कल्याणगोचरं कृत्वां मनस्तृष्णां निगृह्य च। कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी॥ शान्ति. १९/२०॥

धैर्योपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा। सदसच्चाशुता चैव मनसो नव वै गुणाः॥ शान्ति. २५५/९॥

यथा भावावसन्ना हि नौर्महम्भसि तन्तुना। तथा मनोभियोगाद् वै शरीरं प्रचिकीर्षति॥ शान्ति. २९८/३३॥

मनोदोषविहीनानां न दोषः स्यात् तथा तव। अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा॥ अनु. ४३ दा. पा.॥

अगाधे विमले शुद्धे सत्यतोये धृति ह्रदे। स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम्॥ अनु. १०८/३॥

तीर्थशौचमनर्थित्वमार्जवं सत्यमार्दवम्। अहिंसा सर्वभूतानामानृशंस्यं दमः शमः॥ अनु. १०८/४॥

मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च। स्नाति यो मानसे तीर्थे तत्स्नानं तत्त्वदर्शिनः॥ अनु. १०८/१३॥

समारोपितशौचस्तु नित्यं भावसमाहितः। केवलं गुणसम्पन्नः शुचिरेव नरः सदा॥ अनु. १०८/१४॥

मनः पूर्वागमा धर्मा अधर्माश्च न संशयः। मनसा बद्ध्यते चापि मुच्यते चापि मानवः॥ निगृहीते भवेत् स्वर्गो विसृष्टे नरको ध्रुवः॥ अनु. १४५ दा.पा.अ. XI॥

मनः पूर्वं तु वा कर्म वर्तते वाङ्मय ततः। जायते वै क्रियायोगमनु चेष्टाक्रमः प्रिये॥ अनु. १४५ दा.पा.अ. XI॥

मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः॥ आश्व. ३०/५॥

यदिदं चापलात् कर्म सर्वान् मर्त्योश्चिकीर्षति॥ आश्व. ३०/६॥

मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते। हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते॥ आश्व. ४३/३४॥ <poem>

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(मनः)&oldid=15645" इत्यस्माद् पुनः प्राप्तिः