महाभारतसूक्तयः (मनस्वी )

विकिसूक्तिः तः
Jump to navigation Jump to search

न प्रमत्ताय भीताय विरथाय प्रयाचते।
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः॥ द्रोण. १४३/८॥

व्याधिनाचाभिपन्नस्य मानसेनेतरेण वा।
धर्मज्ञश्च कृतज्ञश्च त्वद्विधः शरणं भवेत्॥ शान्ति. १०४/६॥

न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्धिषु।
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः॥ शान्ति. २२३/२९॥

निन्दत्सु च समा नित्यं प्रशंसत्सु च देवल।
निह्नवन्ति च ये तेषां समयं सुकृतं च यत्॥ शान्ति. २२९/८॥

उक्ताश्च न वदिष्यन्ति वक्तारमहिते हितम्।
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः॥ शान्ति. २२९/९॥

नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते।
न चातीतानि शोचन्ति न चैव प्रतिजानत॥ शान्ति. २२९/१०॥

पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः।
मनसा कर्मणा वाचा नापराध्यन्ति कर्हिचित्॥ शान्ति. २२९/१२॥

निन्दा प्रशंसे चात्यर्थं न वदन्ति परस्य ये।
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन॥ शान्ति. २२९/१४॥

प्रभवन् योऽनहंवादी स वै पुरुष उच्यते॥ अनु. १४६/१५॥