महाभारतसूक्तयः (मानसिकदुःखम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

मानसेन हि दुःखेन शरीरमुपतप्यते।
अयः पिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ वन. २/२५॥

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात् प्रवर्तते॥ वन. २/२८॥

विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
विरागं भजते जन्तु र्निवैरो निरवग्रहः॥ वन. २/३१॥

तस्मात् स्नेहं न लिप्सेत मित्रेभ्यो धनसंचयात्।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ वन. २/३२॥

रागाभिभूतः पुरुषः कामेन परिकृष्यते।
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते॥ वन. २/३४॥

संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते बलम्।
संतापाद् भ्रश्यते ज्ञानं संतापाद् व्याधि मृच्छति॥ उद्योग. ३६/४४॥

अनवाप्यं च शोकेन शरीरं चोपतप्यते।
अमित्राश्च प्रहृष्यन्ति मास्म शोके मनः कृथाः॥ उद्योग. ३६/४५॥

शीतोष्णे चैव वायुश्च गुणा राजन् शरीरजाः।
तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्॥ आश्व. १२/३॥

सत्त्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः॥ आश्व. १२/४॥

तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्।
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः।
आत्मनैकेन योद्धव्यं तत् ते युद्धमुपस्थितम्॥ आश्व. १२/१४॥