महाभारतसूक्तयः (मुक्तपुरुषः)

विकिसूक्तिः तः
Jump to navigation Jump to search

क्षुत्पिपासादयो भावा जिता यस्येह देहिनः।
क्रोधो लोभस्तथा मोहः सत्त्ववान् मुक्त एव सः॥ शान्ति.२८८/२५॥

द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः।
न प्रमाद्यति सम्मोहात् सततं मुक्त एव सः॥ शान्ति.२८८/२६॥

आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः॥ शान्ति.२८८/२८॥

सम्भवं च विनाशं च भूतानां चेष्टितं तथा।
यस्तत्त्वतो विजानाति लोकेऽस्मिन् मुक्त एव सः॥ शान्ति.२८८/२९॥

प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु।
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते॥ शान्ति.२८८/३०॥

मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम्।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते॥ शान्ति.२८८/३१॥

यः पश्यति स संतुष्टो न पश्यंश्च विहन्यते।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन् मुक्त एव सः॥ शान्ति.२८८/३२॥

अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति।
न च संस्पृष्यते भावैरद्भुतैर्मुक्त एव सः॥ शान्ति.२८८/३३॥

पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः।
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः॥ शान्ति.२८८/३४॥

क्षौमं च कुशचीरं च कौशेयं वल्कलानि च।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः॥ शान्ति.२८८/३५॥

पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति।
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन् मुक्त एव सः॥ शान्ति.२८८/३६॥

सुखदुःखे समे यस्य लाभालाभौ जयाजयौ।
इच्छद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः॥ शान्ति.२८८/३७॥

रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा।
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते॥ शान्ति.२८८/३८॥

वलीपलितसंयोगे कार्श्यं वैवर्ण्यमेव च।
कुब्जभावं च जरया यः पश्यति स मुच्यते॥ शान्ति.२८८/३९॥

पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते॥ शान्ति.२८८/४०॥

गतानृषींस्तथा देवानसुरांश्च तथा गतान्।
लोकादस्मात् परं लोकं यः पश्यति स मुच्यते॥ शान्ति.२८८/४१॥

प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः।
ये गताः पृथिवीं त्यक्तत्वा इति ज्ञात्वा विमुच्यते॥ शान्ति.२८८/४३॥

अर्थांश्च दुर्लभांल्लोके क्लेशांश्च सुलभांस्तथा।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते॥ शान्ति.२८८/४३॥

अपत्यानां च वैगुण्यं जनं विगुणमेव च।
पश्यन् भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्॥ शान्ति.२८८/४४॥

शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः।
असारमिव मानुष्यं सर्वथा मुक्त एव सः॥ शान्ति.२८८/४५॥

इन्द्रियैरिन्द्रियार्थान् यश्चरत्यात्मवशैरिह।
असज्जमानः शान्तात्मा निर्विकारः समाहितः॥ शान्ति.३२९/१५॥

आत्मभूतैरतद्भूतः सह चैव विनैव च।
स विमुक्तः परं श्रेयो नचिरेणाधितिष्ठति॥ शान्ति.३२९/१६॥

अदर्शनमसंस्पर्शस्तथासम्भाषणं सदा।
यस्य भूतैः सह मुने स श्रेयो विन्दते परम्॥ शान्ति.३२९/१७॥

विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम्।
अर्थार्थमनुसार्यन्ते सिद्धार्थश्च विमुच्यते॥ शान्ति.३२९/३६॥

हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम्।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः॥ शान्ति.३५१/११॥

यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन्।
पूर्वं पूर्वं परित्यज्य स तीर्णो बन्धनाद् भवेत्॥ आश्व. १९/१॥

सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः।
व्यपेतभयमन्युश्च आत्मवान् मुच्यते नरः॥ आश्व. १९/२॥

आत्मवत् सर्वभूतेषु यश्चरेन्नियतः शुचिः।
अमानी निरभीमानः सर्वतो मुक्त एव सः॥ आश्व. १९/३॥

जीवितं मरणं चोभे सुखदुःखे तथैव च।
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते॥ आश्व. १९/४॥

न कस्यचित् स्पृहयते नावजानाति किंचन।
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः॥ आश्व. १९/५॥

अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित्।
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी च मुच्यते॥ आश्व. १९/६॥

नैव धर्मी न चाधर्मी पूर्वोपचितहायकः।
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते॥ आश्व. १९/७॥

अकर्मवान् विकाङ्क्षश्च पश्येज्जगदशाश्वतम्।
अश्वत्थसदृशं नित्यं जन्ममृत्युजरायुतम्॥ आश्व. १९/८॥

वैराग्यबुद्धिः सततमात्मदोष व्यपेक्षकः।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव॥ आश्व. १९/९॥

अगन्धमरसमस्पर्शमशब्दमपरिग्रहम्।
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते॥ आश्व. १९/१०॥

पञ्चभूतगुणैर्हीनममूर्तिमदहेतुकम्।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते॥ आश्व. १९/११॥

विहाय सर्वसंकल्पान् बुद्ध्या शारीरमानसान्।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः॥ आश्व. १९/१२॥

ज्ञानं त्वेवं परं विद्मः संन्यासं तप उत्तमम्।
यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात्।
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते॥ आश्व. ३५/१६॥

यो न कामयते किञ्चिन्न किंचिद्भिमन्यते।
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ आश्व. ३५/१८॥

कामानात्मनि संयम्य क्षीणतृष्णः समाहितः।
सर्वभूतसुहृन्मित्रो ब्रह्मभूयाय कल्पते॥ आश्व. ४२/४७॥

यदा पश्यति भूतानि प्रसन्नात्माऽऽत्मनो हृदि।
स्वयंज्योतिस्तदा सूक्ष्मात् सूक्ष्मं प्राप्नोत्यनुत्तमम्॥ आश्व. ४२/५०॥

यो विद्वान् सहवासं च विवासं चैव पश्यति। आश्व. ३५/१७॥

तथैवैकत्वनानात्वे स दुःखात् प्रतिमुच्यते॥ आश्व. ४७/७॥

यो न कामयते किंचिन्न किंचिदवमन्यते।
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ आश्व. ४७/८॥

प्रधानगुणतत्वज्ञः सर्वभूतप्रधानवित्। आश्व. ३५/१९॥

निर्ममो निरहंकारो मुच्यते नात्र संशयः॥ आश्व. ४७/९॥

हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्।
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः॥ आश्व. ४७/११॥

हित्वा सङ्गमयान् पाशान् मृत्युजन्मजरोदयान्।
निर्ममो निरहंकारो मुच्यते नात्र संशयः॥ आश्व. ४५/१५॥

उच्छ्वासामात्रमपि चेद् योऽन्तकाले समो भवेत्।
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते॥ आश्व. ४८/२॥

निमेषमात्रमपि चेत् संयम्यात्मानमात्मनि।
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्॥ आश्व. ४८/३॥