महाभारतसूक्तयः (मृत्युः)
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा।
न चापि कंचिदमरमयुद्धेनानुशुश्रुम॥ सभा. १७/२॥
न व्याधयो नापि यमः प्राप्तुं श्रेयं प्रतीक्षते।
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्॥ सभा. ५६/१०॥
निमेषादपि कौन्तेय यस्यायुरपचीयते।
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्॥ वन. ३५/३॥
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्॥ वन. ३५/६॥
न मृतो जयते शत्रूञ्जीवन् भद्राणि पश्यति॥ वन. २५२/३९॥
अन्यो धनं प्रेतगतस्य भूङ्क्ते वयांसि चाग्निश्च शरीरधातून्।
द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः॥ उद्योग. ४०/१६॥
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः।
अपुष्पानफलान् वृक्षान् यथा तात पतत्रिणः॥ उद्योग. ४०/१७॥
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम्।
तस्मात् तु पुरुषो यत्नाद् धर्मं संचिनुयाच्छनैः॥ उद्योग. ४०/१८॥
उभे सत्ये क्षत्रियैतस्य विद्धि मोहान्मृत्युः सम्मतोऽयं कवीनाम्।
प्रमादं वै मृत्युरहं ब्रवीमि तथाप्रमादममृतत्वं ब्रवीमि॥ उद्योग. ४२/४॥
प्रमादाद् वै असुराः पराभवन्न प्रमादाद् ब्रह्मभूताः सुराश्च।
नैव मृत्युर्व्याघ्र इवात्ति जन्तून् न ह्यस्य रूपमुपलभ्यते हि॥ उद्योग. ४२/५॥
यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावसन्नममृतं ब्रह्मचर्यम्।
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम्॥ उद्योग. ४२/६॥
अस्यादेशान्निसरते नराणां क्रोधः प्रमादः लोभरूपश्च मृत्युः।
अहंगतेनैव चरन् विमार्गान् च चात्मनो योगमुपैति कश्चित्॥ उद्योग. ४२/७॥
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति।
ततस्तान् देवा अनुविप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति॥ उद्योग. ४२/८॥
सोऽभिध्यायन्नुत्पतितान् निहन्यादनादरेणप्रतिबुध्यमानः।
नैनं मृत्युरिवात्ति भूत्वा एवं विद्वान् यो विनिहन्ति कामान्॥ उद्योग. ४२/१२॥
न चास्त्रेण न शौर्येण तपसा मेधया न च।
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद् विमुच्यते॥ भीष्म. १४/६०॥
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च॥ द्रोण. ११/४४॥
न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निवार्यते॥ द्रोणा. ११/४५॥
पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत॥ द्रोण. ११/४८॥
देवदानवगन्धर्वान् मृत्युर्हरति भारत॥ द्रोण. ५२/११॥
लोभः क्रोधोऽभ्यसूयेर्ष्या द्रोहो मोहश्च देहिनाम्॥ द्रोण. ५४/३८॥
अह्नीश्चान्योन्यपरुषा देहं भिन्द्युः पृथग्विधाः॥ द्रोण. ५४/३९॥
सर्वे देवाः प्राणिभिः प्रायणान्ते गत्वा वृत्ताः संनिवृत्तास्तथैव॥ द्रोण. ५४/४६॥
न नूनं देहभेदोऽस्ति काले राजननागते॥ द्रोण. १८७/४२॥
प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसत्कृतस्य॥ कर्ण. ३७/२५॥
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन॥ शल्य. ६५/१६॥
विनाशः सर्वभूतानां कालपर्यायमागतः॥ शल्य. ६५/२३॥
दुर्मरं पुनरप्राप्ते काले भवति केनचित्॥ स्त्री. २०/२४॥
नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः।
त्रायन्ते मृत्युनोपेतं जरया चापि मानवम्॥ शान्ति. २८/३५॥
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा।
सर्वः कालवशं याति शुभाशुभसमन्वितः॥ शान्ति. १५३/४३॥
यौवनस्थांश्च बालांश्च वृद्धान् गर्भगतानपि।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत्॥ शान्ति. १५३/४५॥
तपसापि हि संयुक्ता धनवन्तो महाधियः।
सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनम्॥ शान्ति. १५३/७२॥
मृत्युनाभ्याहतो लोको जरया परिवारितः।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे॥ शान्ति. १७५/९॥
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्॥ शान्ति. १७५/१२॥
शष्पाणीव विचिन्वन्तमन्यत्रगत मानसम्।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति॥ शान्ति. १७५/१३॥
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्।
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति॥ शान्ति. १७५/१४॥
तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम्।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति॥ शान्ति. १७५/१८॥
संचिन्वानकमेवैनं कामानामवितृप्तकम्।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति॥ शान्ति. १७५/१९॥
इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे॥ शान्ति. १७५/२०॥
कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम्।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति॥ शान्ति. १७५/२१॥
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्।
अनुषक्तं यदा देहे किं स्वस्थ्य इव तिष्ठसि॥ शान्ति. १७५/२३॥
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः॥ शान्ति. १७५/२४॥
मृत्युनाभ्याहतो लोको जरया परिवारितः।
अहोरात्राः पतन्तीमे तच्च कस्मान्न बुध्यसे॥ शान्ति. २७७/९॥
रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा।
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा॥ शान्ति. २७७/११॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्॥ शान्ति. २७७/१३॥
दुर्बलं बलवन्तं च प्राज्ञं शूरं जडं कविम्। शान्ति. १७५/२२॥
अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति॥ शान्ति. २७७/२२॥
न मृत्युसेनामायान्तीं जातु कश्चित् प्रबाधते।
बलात् सत्यमृते त्वेकं सत्ये ह्यमृतमाश्रितम्॥ शान्ति. २७७/२५॥
तस्मात् सत्यव्रताचारः सत्यव्रतपरायणः।
सत्यकामः समो दान्तः सत्येनैवान्तकं जयेत्॥ शान्ति. २७७/२९॥
मृत्युरापद्यते मोहात् सत्येनापद्यतेऽमृतम्॥ शान्ति. २७७/३०॥
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः।
अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम्॥ शान्ति. ३२१/५०॥
यदेव कर्म केवलं पुरा कृतं शुभाशुभम्।
तदेव पुत्र सार्थिकं भवत्यमुत्र गच्छतः॥ शान्ति. ३२१/५१॥
हिरण्यरत्नसंचयाः शुभाशुभेन सञ्चिताः।
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः॥ शान्ति. ३२१/५२॥
परत्रगामिकस्य ते कृताकृतस्य कर्मणः।
न साक्षि आत्मा समो नृणामिहास्ति कश्चन॥ शान्ति. ३२१/५३॥
किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे॥ शान्ति. ३२१/७२॥
अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा॥ शान्ति. ३२१/७४॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्।
तथाऽऽत्मानं समादध्याद् भ्रश्यते न पुनर्यथा॥ शान्ति. ३२१/८०॥
मातृपितृसहस्राणि पुत्रदारशतानि च।
अनागतान्यतीतानि कस्य ते कस्य वा वयम्॥ शान्ति. ३२१/८५॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्।
नतं पश्यामि यस्याहं तन्न पश्यामि यो मम॥ शान्ति. ३२१/८६॥
न तेषां भवता कार्यं न कार्यं तव तैरपि।
स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति॥ शान्ति. ३२१/८७॥
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्। शान्ति. २७७/१५॥
फलानामिव पक्वानां सदा हि पतनाद् भयम्॥ अनु. १४५ दा. पा. XIV॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्वे चापराह्विकम्।
कोऽपि तद् वेद यत्रासौ मृत्युना नाभिवीक्षितः॥ अनु. १४५ दा. पा. XIV॥