महाभारतसूक्तयः (मैत्री)
सौहृदान्यपि जीर्यन्ति कालेन परिजीर्यतः।
सौहृदं ये त्वया ह्यासीत् पूर्वं सामर्थ्यबन्धनम्॥ आदि. १३०/६॥
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्।
कालो ह्येनं विहरति क्रोधो वैनं हरत्युत॥ आदि. १३०/७॥
न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते॥ आदि. १३०/९॥
ययोरेव समं वित्तं ययोरेव समं श्रुतम्।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥ आदि. १३०/१९॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥ आदि. १३०/११; ७१॥
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते॥ आदि. १३०/६७॥
सतां साप्तपदं मैत्रमाहुः सन्तः कुलोचिताः॥ वन. २६०/३५॥
सौहृदात् सर्वभूतानां विश्वासो नाम जायते॥ वन. २९७/४३॥
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषङ् मित्रं दानं मित्रं मरिष्यतः॥ वन. ३१३/६४॥
बहुमित्रकरः सुखं वसते॥ वन. ३१३/११३॥
न तन्मित्रं यस्य कोपाद् बिभेति यद् व मित्रं शंकितेनोपचर्यम्।
यस्मिन् मित्रे पितरीवाश्वसीत तद्वै मित्रं संगतानीतराणि॥ उद्योग. ३६/३७॥
यः कश्चिदप्यसम्बद्धो मित्रभावेन वर्तते।
स एव बन्धुस्तन्मित्रं सा गतिस्तत् परायणम्॥ उद्योग. ३६/३८॥
मात्या परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत्।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञै र्मैत्रीं समाचरेत्॥ उद्योग. ३९/४१॥
प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम्।
मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत्॥ उद्योग. ३९/४५॥
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा।
समेति प्रज्ञया प्रज्ञा तयो र्मैत्री न जीर्यते॥ उद्योग. ३९/४७॥
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव।
विवर्जयीत मेधावी तस्मिन् मैत्री प्रणश्यति॥ उद्योग. २९/४८॥
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च।
तथैवापेत धर्मेषु न मैत्रीमाचरेद् बुधः॥ उद्योग. ३९/४९॥
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम्।
जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते॥ उद्योग. ३९/५०॥
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते।
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः॥ उद्योग. ९३/१०॥
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते।
सर्वयत्नेन माध्यस्थं न तन्मित्रं विदुर्बुधाः॥ उद्योग. ९३/१५॥
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्।
तिष्ठते हि सुहृद् यत्र न बन्धुस्तत्र तिष्ठते॥ उद्योग. १०६/५॥
भग्ने सैन्ये यः समेयात् स मित्रम्॥ द्रोण. २/१९॥
यौनात् सम्बन्धकाल्लोके विशिष्टं संगतं सताम्।
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः॥ द्रोण. ४/१३॥
आपद्नतं कश्चन यो विमोक्षेत् स बान्धवः स्नेहयुक्तः सुहृच्च॥ कर्ण. ६८/२४॥
वदन्ति मित्रं सहजं विचक्षणास्तथैव साम्ना च धनेन चार्जितम्।
प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं तव पाण्डवेषु॥ कर्ण. ८८/२८॥
यस्तु वृद्ध्या न तृप्येत क्षये दीनतरो भवेत्।
एतदुत्तममित्रस्य निमित्तमिति चक्षते॥ शान्ति.८०/१६॥
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्॥ शान्ति.१०३/५०॥
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते।
भिन्ना श्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते॥ शान्ति.१११/८५॥
सतां साप्तपदं मैत्रम्॥ शान्ति.१३८/५६॥
न कश्चित् कस्सचिन्मित्रं न कश्चित् कस्यचिद् रिपुः।
अर्थतस्तु निबद्ध्यन्ते मित्राणि रिपवस्तथा॥ शान्ति.१३८/११०॥
अर्थैरर्था निबद्ध्यन्ते गजैर्वनगजा इव। शान्ति.१३८/१११॥
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति।
न स मित्राणि लभते कृच्छ्रास्वापत्सु द्रुर्मतिः॥ शान्ति.१३८/१२८॥
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः।
संधितास्ते न बुद्ध्यन्ते कामक्रोधवशं गताः॥ शान्ति.१३८/१३८॥
यो यस्मिन् जीवति स्वार्थं पश्येत् पीडां न जीवति।
स तस्य मित्रं तावत् स्याद् यावन्न स्याद् विपर्ययः॥ शान्ति.१३८/१४०॥
मित्रं हि शत्रुतामेति कस्मिंश्चित् कालपर्यये।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः॥ शान्ति.१३८/१४२॥
मित्रद्रोहो विगर्हितः॥ शान्ति.१३८/१८५॥
कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः॥ शान्ति.१३८/२८७॥
न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च॥ शान्ति.१३९/३६॥
न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्ति मतिर्मम॥ शान्ति.१६८/३॥
मित्रद्रोहे निष्कृतिर्नास्ति लोके।
महत् पापं ब्रह्महत्या समं तत्॥ आश्व. १०/६॥