महाभारतसूक्तयः (मोक्षः)

विकिसूक्तिः तः

अनादिनिधनो ह्यात्मा तं बुद्ध्वा विचरेन्नरः।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः॥ शान्ति. २४९/५॥

इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्।
अनित्यं सुखमासीत अशोचंश्छिन्न संशयः॥ शान्ति. २४९/६॥

एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम्।
समवेक्ष्य च वैषम्यं लभते शममुत्तमम्॥ शान्ति. २४९/९॥

एतद् वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः।
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम्॥ शान्ति. २४९/१०॥

मनसश्चेन्द्रियाणां चाप्यैकाग्य्रं परमं तपः।
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते॥ शान्ति. २५०/४॥

तानि सर्वाणि संधाय मनः षष्ठानि मेधया।
आत्मतृप्त इवासीत बहुचिन्त्यमचिन्तयन्॥ शान्ति. २५०/५॥

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि।
तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम्॥ शान्ति. २५०/६॥

सर्वात्मानं महात्मानं विधूममिव पावकम्।
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः॥ शान्ति. २५०/७॥

ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मनि।
दृष्ट्वा त्वमात्मनाऽऽत्मानं निरात्मा भव सर्ववित्॥ शान्ति. २५०/१०॥

विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः।
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः॥ शान्ति. २५०/११॥

करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता।
एवं धर्माभ्युपायेषु नान्यधर्मेषु कारणम्॥ शान्ति. २७४/३॥

क्षमया क्रोधमुच्छिन्द्यात् कामं संकल्पवर्जनात्।
सत्त्वसंसेवनाद् धीरो निद्रां च च्छेत्तुमर्हति॥ शान्ति. २७४/५॥

अप्रमादाद् भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात्।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्॥ शान्ति. २७४/६॥

भ्रमं सम्मोहमावर्तमभ्यासाद् विनिवर्तयेत्।
निद्रां च प्रतिभां चैव ज्ञानाभ्पासेन तत्त्ववित्॥ शान्ति. २७४/७॥

उपद्रवांस्तथा रोगान् हितजीर्णमिताशनात्।
लोभः मोहं च सन्तोषाद् विषयांस्तत्वदर्शनात्॥ शान्ति. २७४/८॥

अनुक्रोशादधर्मं च जयेद् धर्ममवेक्षया।
आयत्या च जयेदाशामर्थं संगविवर्जनात्॥ शान्ति. २७४/९॥

अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः।
कारुण्येनात्मनो मानं तृष्णां च परितोषतः॥ शान्ति. २७४/१०॥

उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज्जयेत्।
मौनेन बहुभाष्यं च शौर्येण भयं त्यजेत्॥ शान्ति. २७४/११॥

यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेञ्ज्ञानचक्षुषा।
ज्ञानमात्मावबोधेन यच्छेदात्मानमात्मना॥ शान्ति. २७४/१२॥

तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा।
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः॥ शान्ति. २७४/१३॥

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्।
परित्यज्य निषेवेत यतवाग् योगसाधनान्॥ शान्ति. २७४/१४॥

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा।
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः॥ शान्ति. २७४/१५॥

एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च।
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते॥ शान्ति. २७४/१६॥

धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद् ब्राह्मणः पदम्॥ शान्ति. २७४/१७॥

अमूढत्वमसंगित्वं कामक्रोध विवर्जनम्।
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः॥ शान्ति. २७४/१८॥

एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः।
तथा वाक्कायमनसां नियमः कामतोऽन्यथा॥ शान्ति. २७४/१९॥

मोक्षधर्मेषु निरतो लघ्वाहरो जितेन्द्रियः।
प्राप्नोति परमं स्थानं यत् परं प्रकृतेर्ध्रुवम्॥ शान्ति. २७८/२॥

स्वगृहादभिनिस्सृत्य लाभेऽलाभे समो मुनिः।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्॥ शान्ति. २७८/३॥

न चक्षुषा न मनसा न वाचा दूषयेदपि।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत् क्वचित्॥ शान्ति. २७८/४॥

न हिंस्यात् सर्वभूतानि मैत्रायणगतश्चरेत्।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्॥ शान्ति. २७८/५॥

अतिवादांस्तितिक्षेत नाभिमन्येत कंचन।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्॥ शान्ति. २७८/६॥

लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः।
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः॥ शान्ति. २७८/११॥

न चान्नदोषान् निन्देत न गुणानभिपूजयेत्।
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्॥ शान्ति. २७८/१२॥

शून्यगारं वृक्षमूलमरण्यमथवा गुहाम्।
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत्॥ शान्ति. २७८/१३॥

अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणा॥ शान्ति. २७८/१४॥

नित्यतृप्तः सुसन्तुष्टः प्रसन्नवदनेन्द्रियः।
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः॥ शान्ति. २७८/१५॥

अभ्यस्तं भौतिकं पश्यन् भूतानामागतिं गतिम्।
निःस्पृहः समदर्शी च पक्वापक्वेन वर्तयन्।
आत्मना यः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः॥ शान्ति. २७८/१६॥

वाचोवेगं मनसः क्रोधवेगं हिंसावेगमुदरोपस्थवेगम्।
एतान् वेगान् विषहेद् वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात्॥ शान्ति. २७८/१७॥

मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः।
एतत् पवित्रं परमं परिव्राजक आश्रमे॥ शान्ति. २७८/१८॥

महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः।
अपूर्वचारकः सौम्यो अनिकेतः समाहितः॥ शान्ति. २७८/१९॥

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्।
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत्॥ शान्ति. २७८/२०॥

विजानतां मोक्ष एष श्रमः स्यादविजानताम्॥ शान्ति. २७८/२१॥

वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः।
ज्ञानादेव वैराग्यं जायते येन मुच्यते॥ शान्ति. ३२०/२९॥

आकिंचन्ये न मोक्षोऽस्ति किंचन्ये नास्ति बन्धनम्।
किंचन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥ शान्ति. ३२०/५०॥

सर्वभूतदया धर्मो न चैकग्रामवासिता।
आशापाशविमोक्षश्च शस्यते मोक्षंकाङ्क्षिणाम्॥ अनु. १४१/८१॥

न कुट्यां नोदके सङ्गो न वाससि न चासने।
न त्रिदण्डे न शयने नाग्नौ न शरणलये॥ अनु. १४१/८२॥

अध्यात्मगतिचित्तो यस्तन्मनास्तत्परायणः।
युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च॥ अनु. १४१/८३॥

वृक्षमूलपरो नित्यं शून्यागारनिवेशनः।
नदी पुलिनशायी च नदीतीररतिश्च यः॥ अनु. १४१/८४॥

विमुक्तः सर्वसंगेषु स्नेहबन्धेषु च द्विजः।
आत्मन्येवात्मनो भावं समासज्जेत वै द्विजः॥ अनु. १४१/८५॥

स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा।
परिव्रजेति यो युक्तस्तस्य धर्मः सनातनः॥ अनु. १४१/८६॥

न चैकत्र समासक्तो न चैकग्रामगोचरः।
मुक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः॥ अनु. १४१/८७॥

द्वयक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। आश्व. ५१/२९॥

ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥ आश्व. १३/३॥

ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ।
अदृश्यमानौ भूतानि योधयेतामसंशयम्॥ आश्व. १३/४॥

लब्ध्वा हि पृथ्वीं कृत्स्नां सह स्थावरजङ्गमाम्।
ममत्वं यस्य नैव स्यात् किं तया स करिष्यति॥ आश्व. १३/६॥

अथवा वसतः पार्थ वने वन्येन जीवतः।
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते॥ आश्व. १३/७॥

कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः।
सर्वे कामा मनसोऽङ्गभूता यान् पण्डितः संहरते विचिन्त्य॥ आश्व. १३/९॥

भूयो भूयो जन्मनोऽभ्यासयोगाद् योगी योगं सारमार्गं विचिन्त्य।
दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि॥ आश्व. १३/१०॥

व्रतं यज्ञान् नियमान् ध्यानयोगान् कामेन यो नारभते विदित्वा।
यद् यच्चायं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम्॥ आश्व. १३/११॥