महाभारतसूक्तयः (ॠणम्)

विकिसूक्तिः तः

वर्धमानम् ॠणं तिष्ठत् परिभूताश्र्चशत्रवः।
जनयन्ति भयं तीव्रं व्याधयश्चाप्युपेक्षिता॥ शान्ति.१४०/५९॥

देवतातिथि भृत्येभ्यः पितृभ्यश्चात्मनस्तथा।
भ्यणवान् जायते मर्त्यस्तस्मादनृणतां व्रजेत्॥ शान्ति.२९२/९॥

स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा।
पितृभ्यः श्राद्धदानेन नृणामम्यर्चनेन च॥ शान्ति.२८२/१०॥

वाचा शेषावहार्येण पालनेनात्मनोऽपि च।
यथावद् भृत्यवर्गस्य, चिकीर्षेत् कर्म आदितः॥ शान्ति.२९२/११॥

पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः॥ आदि.११९/१८॥

यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन्॥ आदि.११९/१९॥

पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान्॥ आदि.११९/२०॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(ॠणम्)&oldid=15703" इत्यस्माद् प्रतिप्राप्तम्