मात्स्यन्यायः

विकिसूक्तिः तः

महान् मत्स्यः अल्पप्रमाणं मत्स्यं निगिलति । एवं बलवन्तः जनाः अल्पबलान् दिर्बलान् वा जनान् पीडयन्ति इतिभावः । <poem> यथा – १. दुर्बलं बलवन्तो हि मत्स्या मत्स्यविशेषतः ।

    भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥ महाभारते ३-१८५-८

२ राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः ।

  जले मत्स्यानिवाभक्ष्यन् दुर्बलं बलवत्तराः ॥
  अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् ।
  परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ महाभारते १३-६७, १६,१७

३(दण्डः) अप्रणीतो हि मात्स्यन्यायम् उद्भावयति ।

           बलीयान् अबलं हि ग्रसते दण्डधराभावे । कौटिलीये १-४
"https://sa.wikiquote.org/w/index.php?title=मात्स्यन्यायः&oldid=10707" इत्यस्माद् प्रतिप्राप्तम्