मायां तु प्रकृतिं विद्यात्...
मायां तु प्रकृतिं विद्यात् मायाविनं तु महेश्वरम् । - श्वेताश्वतरोपनिषत् ४-१०
प्रकृतिं मायाम्, महेश्वरं च मायाविनं विद्यात् ॥
साङ्ख्यवैशेषिकादिदर्शनेषु वादिनः ‘प्रकृतिम्’, ‘परमाणून्’ च अस्य विश्वस्य मूलकारणम् इति वर्णयन्ति ।
कापिलसाङ्ख्यदर्शनं तु इमां सत्यभूतां मूलप्रकृतिमेव जगत्कारणमिति प्रतिपादयति ॥
यद्यपि वेदान्तदर्शनेऽपि साङ्ख्यानां प्रकृतेः विचारः अनूद्यते, तथापि इमां प्रकृतिं वेदान्तेषु मायाम् वदन्ति
वेदान्तिनः इत्येतावानेव विशेषः । ईश्वराधीना हि प्रकृतिः वेदान्तेषु अविद्याकल्पिता, एषा प्रकृतिः माया चेति
कथ्यते । प्रकृतेः स्वतन्त्रा अस्तिता नास्ति । आत्मनि भ्रान्त्या कल्पिता प्रकृतिः केवलम् आभासरूपा ॥
मायातीतः स्वाधीनकृतमायः मायावी एव ईश्वरः । मायां मायाविनं च अतीत्य स्वीयेन निरुपाधिकेन परिपूर्णस्वरूपेण
विद्यमानमेव परं ब्रह्म । ईश्वरं प्रपद्यमानस्य विज्ञासोः माया अपगच्छति । न हि मायाविनं माया वञ्चयेत् ॥