मार्जारकिशोरन्यायः

विकिसूक्तिः तः

मार्जारी यदा स्वशिशून् देशान्तरं नेतुम् इच्छति तदा स्वमुखेन तान् दृढं गृहीत्वा नयति । सा एव शिशूनां संरक्षणचिन्तां वहति । मर्कटशिशूनां तु अन्या स्थितिः । तैः माता दृढं गृहीता भवति । एवं भगवान् स्वभक्तानां स्वयमेव रक्षणं करोति इति भावः अस्य् मार्जारकिशोरन्यायस्य ।

यथा –

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ भगवद्गीता ९-४६

"https://sa.wikiquote.org/w/index.php?title=मार्जारकिशोरन्यायः&oldid=17807" इत्यस्माद् प्रतिप्राप्तम्