मेघचातकन्यायः

विकिसूक्तिः तः

चातकनामा पक्षिविशेषः मेघात् साक्षात् प्राप्तं जलम् एव पिबति इति प्रतीतिः । अन्येभ्यः जलाशभ्यः सः जलं पातुं न इच्छति । सदा मेघानाम् आगमनम् एव प्रतीक्षमाणः भवति आतुरतया । एतादृशी मैत्री क्वचिद् भवति इति अनेन न्यायेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=मेघचातकन्यायः&oldid=10801" इत्यस्माद् प्रतिप्राप्तम्