मौक्तिकानि (अन्ये स्वराः)

विकिसूक्तिः तः

इन्द्रियनिग्रहः[सम्पाद्यताम्]

शंजम्मध णिअपोटं णिच्चं जगरोध झाणपदहेण
विरामा इन्दिअचोला हलन्ति चिलशंचिदं घम्मम् ॥२५॥
(संयच्छत निजोदरं नित्यं जागृत ध्यानपटहेने
विषमा इन्द्रियचौरा हरन्ति चिरसञ्चितं धर्मम् ॥) मृच्छकटिकम् ८.१

उत्तमः[सम्पाद्यताम्]

उत्तम: क्लेशविक्षोभं क्षमः सोढुं न हीतरः मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥२६॥ सुभषितरत्नभाण्डागारम् ४६.५५ </poem>

उद्यमः[सम्पाद्यताम्]

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ २७ ॥ पञ्चतन्त्रम् २.१३८

उद्योगिनः[सम्पाद्यताम्]

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी -
दैवेन देयमिति कापुरुषा वदन्ति
दैवं निहत्य दुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २८ ॥ पञ्चतन्त्रम् १.३९२

उदारचरितः[सम्पाद्यताम्]

अयं निजः परो वेति गणना लघुचेतसाम्
उदारचरितानां तु वसुधैवकुटुम्बकम् ॥ २९ ॥ पंचतन्त्रम् ५.३८

उपकारः[सम्पाद्यताम्]

प्राप्य चलानधिकारान् शत्रुषु मित्रेषु बन्धुवर्गेषु
नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ३०॥ सुभषितरत्नभाण्डागारम् १७०.७४०