मौक्तिकानि (कवर्गः)

विकिसूक्तिः तः

कर्मफलम्[सम्पाद्यताम्]

यात्यधोऽधो व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः
कृपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥३१ ॥ हितोपदेशम् २.४८.

कामः[सम्पाद्यताम्]

न जातु कामः कामानामुपभोगेन शाम्यति
हविषा कृष्णवतर्मेव भूय एवाभिवर्धते ॥ ३२ ॥ समयोचितपध्यमालिका ३८.२६

कार्यहन्ता प्रियवादी[सम्पाद्यताम्]

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्
वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ३३ ॥ हितोपदेशम् १.७७

कार्यापरित्यागः[सम्पाद्यताम्]

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः
विध्नैः सहस्रगुणितैरपि हन्यमानाः
प्रारब्धमुत्तमजनाः न परित्यजन्ति ॥३४ ॥ पञ्चतन्त्रम् ३.२३९

कालः[सम्पाद्यताम्]

व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि
दुर्णीतं किमिहास्ति किं च सुकृतं कः स्थानलाभे गुणः
कालः सर्वजनान् प्रसारितकरो गृह्णाति दूरादपि ॥ ३५ ॥ पञ्चतन्त्रम् २.२३

कृतघ्नता[सम्पाद्यताम्]

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥३६॥ पञ्चतन्त्रम् ४.११

कृपणः[सम्पाद्यताम्]

होन्ती वि णिप्फलच्चिअ धणरिद्धी होइ किविणपुरिसस्स
गिह्माअवसंतत्तस्स णिआछाहि व्व पहिअस्स ॥ ३७ ॥
(भवन्त्यपि निष्फलैव धनऋद्भिर्भवति कृपणपुरुषस्य
ग्रीष्मातपसन्तप्तस्य निजकच्छायेव पथिकस्य ॥) गाथासप्तसती -शतक-गाथा २.३६

कोपः[सम्पाद्यताम्]

उत्तमे तु क्षणं कोपो मध्यमे घटिकाद्वयम्
उध्यमे स्यादहोरत्रं चाण्डाले मराण्तिकः ॥ ३८ ॥ समयोचितपध्यमालिका २४.७

क्षमा[सम्पाद्यताम्]

क्षमाशस्त्रं करे यस्य दुर्जन: किं करिष्यति
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ ३९ ॥ सुभषितरत्नभाण्डागारम् ८३.१

क्षान्तिः[सम्पाद्यताम्]

क्षान्तितुल्यं तपो नास्ति संतोषान् न सुखं परम्
नास्ति तृष्णासमो व्याधिनं च धर्मो दयापरः ॥ ४० ॥ समयोचितपध्यमालिका ३७.२

खलः[सम्पाद्यताम्]

 
अहो खलभुजङ्गस्य विपरीतो वधक्रमः
कर्णे लगति चैकस्य प्राणैरन्यो वियुज्यते ॥ ४ ॥ पञ्चतन्त्रम् १.३२१.

खलः सर्षपमात्राणि परच्छिद्राणि पश्यति
आत्मनो बिल्वमात्राणि पश्यत्रपि न पश्यति ॥ ४२ ॥ सुभषितरत्नभाण्डागारम् ५४.१

धारणा बहिरा अन्धा ते च्चिअ जीअन्ति माणुसे लोए
ण सुणंति पिसुणवअणं खलाणाँ ऋद्धिं ण पेवखन्ति ॥ ४३ ॥
(धन्या बधिरा अन्धास्त एव जीवन्ति मानुषे लोके
न शृणवन्ति पिशुनवचनं खलानामृद्धिं न प्रेक्षन्ते ॥) गाथासप्तसती -शतक-गाथा ७.९५.

वर्धनं चाथ सम्मानं खलानां प्रीतये कुतः
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥४४॥ हितोपदेशम् २.१३९.

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः
प्रभुर्धनपरायणः सततदुर्गत: सज्जनो
नृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे ॥ ४५ ॥ भर्तृहरिशतकत्रयम्. १.४५.

गुणप्रशंसा[सम्पाद्यताम्]

गुणानां वा विशालानां सत्काराणां च नित्यशः
कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः ॥ ४६ ॥ स्वप्रवासवदत्तम् ४.१

गुणविकासः[सम्पाद्यताम्]

यदि सन्ति गुणाः पुंसां विकासन्त्येव ते स्वयम्
नहि कस्तूरिकामोद: शापथेन विभाव्यते ॥ ४७ ॥ समयोचितपध्यमालिका ३९.४०

गुणविचारणम्[सम्पाद्यताम्]

छेदप्टान्दनचूतचम्पकवने रक्षापि शाखोटके
हिंसा हंसमयूरकोकिलकुले कोकेषु नित्यादरः
मातङ्गेन खरक्रयः समातुला कर्पूरकार्पासयो -
रेषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ४८ ॥ सुभषितरत्नभाण्डागारम् १७८.१०१६

गुणाः[सम्पाद्यताम्]

 
संहतिः श्रेयसी राजन् विगुणेष्वपि बन्धुषु
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ४९ ॥ हितोपदेशम् १.३५

गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ ५० ॥ मृच्छकटिकम् ४.२२

गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम्
गुणप्रकर्षादुडुपेन शंभोरलङ्घचमुलङ्घितमुत्तमाङ्गम् ॥ ५१ ॥ मृच्छकटिकम् ४.२३

गुणिनः दोषिणः[सम्पाद्यताम्]

दोषो गुणाय गुणिनां माहदपि दोषाय दोषिणां सुकृतम्
तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणाम् ॥ ५२ ॥ सुभषितरत्नभाण्डागारम् ४८.१३८

गृहस्थधर्म:[सम्पाद्यताम्]

चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे
वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ ५३ ॥ महाभारतम्

"https://sa.wikiquote.org/w/index.php?title=मौक्तिकानि_(कवर्गः)&oldid=2508" इत्यस्माद् प्रतिप्राप्तम्