मौक्तिकानि (चवर्गः)

विकिसूक्तिः तः

चलस्वभाव:[सम्पाद्यताम्]

वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति
सर्वन्न यान्ति पुरुषस्य चलाः स्वभावाः
खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥५४ ॥ मृच्छकटिकम् ५.८

चारित्र्यविहीनः[सम्पाद्यताम्]

मा दुग्गादोति परिहवो णात्थि कअन्तस्स दुग्गदो णाम
चारित्तेण विहीणो अङ्ढो वि अ दुग्गदो होइ ॥ ५५ ॥
(मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम
चारित्र्येण विहीन आढ्येऽपि च दुर्गतो भवति ॥) मृच्छकटिकम् १.४३

जननमरणम्[सम्पाद्यताम्]

कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति
एवं लोकस्तुल्यधर्मो वनानां काले काले छिध्यते रुह्यते च ॥ ५६ ॥ स्वप्रवासवदत्तम् ६.१०

जन्मसाफल्यम्[सम्पाद्यताम्]

जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम्
यत् सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥ ५७ ॥ पञ्चतन्त्रम् १.२९.

जरा[सम्पाद्यताम्]

यथेक्षुरत्यन्तरसप्रपीडिता भुवि प्रविद्धो दहनाय शुष्यते
तथा जरायन्त्रनिपीडिता तनुर्निपीतसारा मरणाय तिष्ठति ॥ ५८ ॥ सौन्दरनन्दरम्. १.३१

स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छतिचक्षुषां ग्रहः श्रमस्य योनिर्बलवीर्ययोर्वधो जरासमो नास्ति शरीरिणां रिपुः ॥ ५९ ॥ सौन्दरनन्दरम् १.३३. </poem>

जितेन्द्रियत्वम्[सम्पाद्यताम्]

जितेन्द्रियत्वं विनयस्य कारणं गुणाप्रकर्षो विनयादवाप्यते
गुणप्रकर्षेण जनोऽनुरज्यते जननुरागप्रभवा हि सम्पदः ॥ ६० ॥ अलंकार सर्वस्वम् १७७

जिह्वा[सम्पाद्यताम्]

जिह्वे प्रमाणं जानीहि भोजने भाषणेऽपि च
अतिभुक्तिरतीवोक्तिः सध्यःप्राणापहारिणी ॥ ६१ ॥ समयोचितपध्यमालिका २९.१३

जीवनम्[सम्पाद्यताम्]

यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभज्यमानम्
तन्नाम जीवितमिह प्रवदन्ति तजूञाः
काकोऽपि जीवति चिरय बलिं च भुङ्क्ते ॥ ६२ ॥ पञ्चतन्त्रम् १.२४.

"https://sa.wikiquote.org/w/index.php?title=मौक्तिकानि_(चवर्गः)&oldid=2513" इत्यस्माद् प्रतिप्राप्तम्