मौक्तिकानि (रत्नख्ण्डानि)

विकिसूक्तिः तः

१. अकन्दसमुत्थिता पउमिणी अवञ्चओ वणिओ अचोरो सुवणआरो

अकलहो गामसमागमो अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअन्ति ।
(अकन्दसमुत्थिता पह्मिनी अवञ्चको वणिक् अचौरः सुवर्णकारः
अकल्हो ग्रामसमागमः अलुब्धा गणिकेति दुष्करमेते सम्भाव्यन्ते ।) ५.प्र.स.१४७५

२. अजुर्त्तं परपुरुषसंकित्तणं सोदुं

(अयुक्तं परपुरुषसंकीर्थनं श्रोतुम् ।) स्वप्रवासवदत्तम् ३. पृ.६४

३. अणदिक्कमणीओ हि विही

(अनतिक्रमणीयो हि विधिः) स्वप्रवासवदत्तम् २. पृ.५८

४. अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च । मृच्छकटिकम् ३. पृ.सं.९२

५. अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा । कुमारसम्भवम् १.२७

६.अनुहुंकुरुते घनध्वनिं न तु गोमायुरुतानि केसरी । शिशुपालवधम् १६.२५

७. अभिभूतिभयादसूनतः सुखमुज्झान्ति न धाम मानिनः किरातार्जुनीयम् २.२०

८. अथीं दोषं न पष्यति । समयोचितपध्यमालिका १.४

९. अर्धो घटो घोषमुपैति नूनम् । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

१०. अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् । मृच्छकटिकम् १.११

११. अल्पविद्यो महागर्वी । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

१२. असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता । चारुदत्तचरितम् १.१९

१३. अहर्निशं वर्षति वारिवाहस्तथापि पत्रत्रितयः पलाशः । समयोचितपध्यमालिका १०.६१

१४. आअमप्पहाणणि सुळहपय्यवत्थणाणि महापुरुसाहि अआणि होति

(आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति ।) स्वप्रवासवदत्तम् २.५८

१५. आकण्ठजलमग्नोऽपि स्वा लिहत्येव जिह्वया । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

१६. आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् । मेघदूतम् १.५४

१७. आर्जवं हि कुटिलेषु न नीतिः । नैषधीयचरितम् ५.१०३

१८. उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम् । सुभषितरत्नभाण्डागारम् २४८. ८५

१९. एअस्सिं दु्ळ्ळहो गुणविभवो त्ति

(एकस्मिन् दुर्लभो गुणविभव इति ।) चारुदत्तचरितम् २.प्र.सं ४६

२०. एको हि दोषो गुणसंनिपाते निमज्जतीन्दोःकिरणेष्विवाङ्कः । कुमारसम्भवम् १.३

२१. एवमनिर्ज्ञातानि दैवतान्यप्यवधूयन्ते । स्वप्रवासवदत्तम् १.प्र.३४

२२. क ईप्सितार्थस्थिरनिप्टायं मनः पयप्टा निम्नाभिमुखं प्रतीपयेत् । कुमारसम्भवम् ५.५

२३. कन्यका हि निर्दोषदर्शन भवन्ति । नागानन्दम् १.प्र.२२

२४. कामो वामः । मृच्छकटिकम् ५.प्र.सं १४७

२५. किं मर्दितोऽपि कस्तूर्यां लशुनो याति सौरभम् । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

२६. किं हीणकुसुमं सहआरपादवं महुअरिओ उण सेवन्ति

(किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते।) मृच्छकटिकम् २.प्र.सं ५२

२७. क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे । भोजप्रबन्धः

२८. कुकृत्ये को न पण्डितः । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

२९. क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः शिशुपालवधम्४.१७

३०. क्षीरेण दग्धजिह्वस्तक्रं कूत्कृत्य बालकः पिबति । हितोपदेशम् ४.१०.३

३१. गजानां पङ्कमग्रानां गजा एव धुरंधराः। हितोपदेशम् १.१९३

३२. गणिका णाम पादुअन्तरप्पविट्टा विआ लेट्ठुआ दुक्खेण उण णिराकरीअदि । मृच्छकटिकम् ५.प्र.सं १४६

(गणिका नाम् पादुकान्तरप्रविष्टेवलेष्टुका दुःखेन पुनर्निराक्रियते ।)

३३. गणिआ हत्थी का अत्थओ भिक्खु चाटो रासहो अ जाहिं एदे

णिवसन्ति तहिं दुट्टा वि ण जाअन्ति
(गणिका हस्ती कायस्थो भिक्षुप्टाटो रासभप्टा यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते) मृच्छकटिकम् ५.प्र.सं १४७

३४. गतयो विविधा हि चेतसां बहुगुह्यानि मदाकुलानि च । सौन्दरनन्दरनम् ८.६

३५. धनाम्बुना राजपथे हि पिच्छिले क्कचिद् बुधैरप्यपथेन गम्यते । नैषधीयचरितम् ९.३६

३६. जनानने कः करमर्पयिष्यति । नैषधीयचरितम् ९.१२५

३७. जे अहिभवन्ति शाहुं ते पावा ते अ चाण्डाला

(येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ।) मृच्छकटिकम् १०.३४

३८. तरुणीकच इव नीचः कौटिल्यं नैव विजहाति । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

३९. दलिद्दपुरिससंकन्तमणा क्खु गणिआ लोए अवअणीआ भोदि

(दरिद्रपुरुषसंक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवन्ति ।) मृच्छकटिकम् २.प्र.सं ५९

४०. दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

४१. धूतं हि नाम पुरुषस्यासिंहासनं राज्यम् । मृच्छकटिकम् २. प्र.सं ५९

४२. द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । मृच्छकटिकम् ४.२५

४३. दरिद्रयं खलु नाम मनस्विनः पुरुषस्य सोच्छ्वासं मरणम् । चारुदत्तचरितम् १.प्र.सं १०

४४. दीर्घसूत्रो विनश्यति । पञ्चतन्त्रम्. ४.४१.४२

४५. दुर्लभा गुणा विभवप्टा । अपेयेषु तडागेषु बहुतरमुदकं भवति । मृच्छकटिकम् २. प्.सं ६९

४६. दुष्करं विषमौषधीकर्तुम् । मृच्छकटिकम् ८.प्र.सं २२५

४७. देवो दुर्बलघातकः । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

४८. द्यौर्न काचिदथवास्ति निरूढा सैव सा चलति यत्र हि चित्तम् । नैषधीयचरितम् ५.५७

४९. धूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः । रघुवंशम् ७.५५

५०. न कालमपेक्षते स्नेहः । मृच्छकटिकम् ७. प्र.सं २०४

५१. न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पाप्भाक् । कुमारसंभवम् ५.८३

५२. नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । पञ्चतन्त्रम्. ३.४४

५३. नग्रक्षपणके देशे रजकः किं करिष्यति । चाणक्यनीतिः ११०

५४. न पुरुषमाश्रमवासिषु प्रयोज्यम् । स्वप्रवासदत्तम् १.५

५५. न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य । ह्म रघुवंशम् २.३४

५६. न पुण्यमोक्षणमर्हति लता । चारुदत्तचरितम् १.पृ.सं १८

५७. नरः प्रत्युपकारार्थी विपत्तौ लभते फलम् । चारुदत्तचरितम् ४.७

५८. नवोवणाणि णाम आदिः जणत्स सअगेहं

(तपोवनानि नामातिथिजनस्य स्वगेहम् ।) चारुदत्तचरितम् १.पृ.३८

५९. न सुवर्णे ध्वनिस्तादृग् यादृक् कास्ये प्रजायते । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

६०. न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया । हितोपदेशम् १.८६

६१. न हि सिद्धवाक्यान्युत्क्रम्य गचछति विधिः सुपरीक्षितानि । स्वप्रवासदत्तम् १.पृ. ४४

६२. न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः । रघुवंशम् १७.५२

६३. न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । भगवद्गीता ४.३८

६४. नार्कातपैजलजमेति हिमैस्तु दाहम् । नैषधीयचरितम् २३.५०

६५. निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राणाधारणम् । हितोपदेशम् ३.५५

६६. निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः । किरातार्जुनीयम् । २.१५

६७. पयोऽपि शौण्डिकीहस्ते मदिरां मन्यते जनः । सुभषितरत्नभाण्डागारम् १६७.६२६

६८. परस्परागता लोके दृश्यते रूपतुल्यता । स्वप्रवासदत्तम् ६.१४

६९. पवनः परागवाही पथ्यासु वहन् रजस्वलो भवति । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

७०. पश्येयुः क्षितिपतयो हि चारदृष्टया । मृच्छकटिकम् ७.८

७१. प्रद्वेषो बहुमाना वा सङ्कल्पादुपजायते । स्वप्रवासदत्तम् ६.७

७३. प्रायेण सामग्रूयविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः । कुमारसंभवम् ३.२८

७४. पुरुसजोव्वणाणि विअ गिहजोव्वणाणि खु दसाविसेसं

अणुहोन्ति । (पुरुषयौवनानीव गृहयौवनानि खलु दशाविशेषमनु भवन्ति ।) चारुदत्तचरितम् १.पृ.सं १०

७५. पुरुसेसु णासा णिक्खिविअन्ति ण उण गेहेसु

(पुरुषेषु न्यासा निक्षिप्यन्ते न पुनर्गेहेषु ।) मृच्छकटिकम् १.पृ.सं ४४

७६. पुस्तकं वनिता वित्तं परहस्तगतं गतम् । समयोचितपध्यमालिका ४८.५३

७७. बुद्धेः फलमनाग्रहः । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

७८. भाग्यक्रमेण हि धनानि पुनर्भवन्ति । चारुदत्तचरितम् १.५

७९. भाग्यहीना न पश्यन्ति बहुरत्ना वसुंधरा । सुभषितरत्नभाण्डागारम् १६०.३११

८०. भिन्नरुचिर्हि लोकः । रघुवंशम् ६.३०

८१. मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः । सौन्दरनन्दरनम् ८.५

८२. मनोरथानामगतिर्न विद्यते । कुमारसंभवम् ५.६४

८३. महुरं पि बहु खादिअं अजिण्णं होइ

(मधुरमपि बहु खादितमजीर्णं भवति ।) चारुदत्तचरितम् ३.पृ.सं ५६

८४. मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् । महाभारतम्

८५. मूले च्छिण्णे कुदो पादवस्स पालणम्

(मूले छिन्ने कुतः पद्पस्य पाल्नम् ।) मृच्छकटिकम् ९.पृ.सं २९०

८६. मौनं सर्वार्थसाधनम् । पञ्चतन्त्रम्. ४.४८

८७. यत्राकृतिस्तत्र गुणा वसन्ति । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

८८. याचनान्तं हि गौरवम् । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

८९. याञ्चा मोघा वरमिधिगुणे नाधमे लब्धकामा । मेघदूतम् १.६

९०. यादृशास्तन्तवः कामं तादृशू जायते पटः । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

९१. यौवनमात्रापराध्यति न चारित्र्यम् । मृच्छकटिकम् ९. पृ.सं २७१

९२. रत्नं रत्नेन संगच्छते । मृच्छकटिकम् १.पृ.सं २३

९३. रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय । मेघदूतम् १.२०

९४. लधयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः । किरातार्जुनीयम् २.१८

९५. ळहुजणस्स सुळहो विम्हओ

(लघुजनस्य सुलभः विस्मयः ।) चारुदत्तचरितम् २.पृ.सं.५२

९६. वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् । नैषधीयचरितम् ८.३२

९७. विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः । कुमारसंभवम् १.५९

९८. विक्रीते करिणि किमङ्कुशे विवादः । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

९९. विचित्राणि हि विधिविलासितानि । नागानन्दम् । ५.पृ.१३४

१००. विना मलयमन्यत्र चन्दनं न प्ररोहति । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

१०१. विनाशकाले विपरीतबुद्धिः । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

१०२. विनिगुह्य हि रोगमातुरो न चिरात्तीव्रमनर्थमृच्छति । सौन्दरनन्दरनम् ८.४

१०३. विभूषणं मौनमपण्डितानाम् । भर्तृहरिशतकत्रयम् । १.६

१०४. विविक्तविश्रम्भरसो हि कामः । मृच्छकटिकम् ८.३०

१०५. विषमप्यमृतं क्कचिद् भवेदमृतं वा विषमीशवरेच्छया। रघुवंशम् । ८.४६

१०६. विषवृक्षोऽपि संवर्ध्य् स्वयं छेत्तुमसाम्प्रतम् । कुमारसंभवम् १.५५

१०७. वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः । किरातार्जुनीयम् २.३०

१०८. शङ्क्नीया हि दोषेषु निष्प्रभावा दरिद्रता । चारुदत्तचरितम् ३.१५

१०९. शङ्क्नीया हि लोके अस्मिन्निष्प्रतापा दरिद्रता । मृच्छकटिकम् ५.४३

११०. शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः शस्त्रेण न हन्तव्यः । मृच्छकटिकम् १०. पृ.सं ३३०

१११. शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । सुभषितरत्नभाण्डागारम् १६०.३४०

११२. शरीरमाद्यं खलु धर्मसाधनम् । कुमारसंभवम् ५.३३

११३. श्रेयसि केन तृप्यते । शिशुपालवधम् १.२९

११४. सक्करो हि णाम् सक्करेण पडिच्छिदो पीदिं उप्पादेदि

(सत्कारो हि नाम् सत्कारेण प्रतीष्टः प्रीतिमुत्पादयति ।) स्वप्रवासदत्तम् ४.पृ.८८

११५. सके गेहे कुक्करो वि दाव चण्डो भोदि

(स्वके गेहे कुक्करोऽपि तावचण्डो भवति ।) मृच्छकटिकम् १. पृ सं ३९

११६. सच्चेण सुहं क्खु लब्भइ सच्चालावे ण होइ पावम्

(सत्येन सुखं खलु लभ्यते सत्यालापो न भवति पातकम् ।) मृच्छकटिकम् १.३५

११७. सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः । शाकुन्तलम् १.२०

११८. सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ।

११९. स्तोत्रं कस्य न तृप्तये । कुमारसंभवम् १०.९

१२०. स्त्रीस्वभावस्तु कातरः । स्वप्रवासदत्तम् ४.८

१२१. सदक्खिञ्ञस्स जणस्य परिजणो वि सदक्खिञ्ञो एव्व होदि

(सदाक्षिण्यस्य परिजनोऽपि सदाक्षिण्य एव भवति ।) स्वप्रवासदत्तम् ४. पृ.८६

१२२. समानाधिकरण्यं हि तेजस्तिमिरयोः कुतः । शिशुपालवधम् २.६२

१२३. समीरणो नोदयिता भवेति व्यपदिश्यते केन हुताशनस्य । कुमारसंभवम् ३.२१

१२४. समुत्रयन् भूतिमनार्यसङ्गमाद् वरं विरोधोऽपि समं महात्मभिः । किरातार्जुनीयम् १.८

१२५. सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते । भगवद्गीता २.३४

१२६. सर्वजनसाधारणमाश्रमपदं नाम । स्वप्रवासदत्तम् १.पृ.४६

१२७. सर्वारम्भास्तण्डुलप्रस्थ्मूलाः । सुभषितरत्नभाण्डागारम् ९६.२

१२८. सव्वजणमणोभिरामं खु सोभग्गं णाम

( सर्वजनमनोभिरामं खलु सौभाग्यं नाम ।) स्वप्रवासदत्तम् २. पृ. ५८

१२९. साक्षिमन्यासो निर्यातयितव्यः । स्वप्रवासदत्तम् ६. पृ. १२४

१३०. साहसे खलु श्रीर्वसति । चारुदत्तचरितम् ४. पृ.सं ८६

१३१. सिते हि जायेत शितेः सुलक्ष्यता । नैषधीयचरितम् १२.२२

१३२. सुखं हि दुःखान्यनुभूय शोभते यथान्धकारादिव दीपदर्शनम् । चारुदत्तचरितम् १.३

१३३. सुखार्थिनः कुतो विद्या दुतो विद्यार्थिनः सुखम् । सुभषितरत्नभाण्डागारम् १५८.२१६

१३४. सुखात्तु यो याति दशां दरिद्रतां स्थितः शरीरेण मृतः स जीवति । चारुदत्तचरितम् १.३

१३५. सुचरितचरितं विशुद्धदेहं न हि कमलं मधुपाः परित्यजन्ति । मृच्छकटिकम् ८.३२

१३६. सुतप्तमपि पानीयं शमयत्येव पावकम् । पञ्चतन्त्रम् ३.२३

१३७. हितं मनोहारि च दुर्लभं वचः । किरातार्जुनीयम् १.४

१३८. हेम्नः संलक्ष्यते ह्यग्रौ विशुद्धिः श्यामिकापि वा । रघुवंशम् १.१०

१३९. होतारमपि जुह्वन्तं स्पष्टो दहति पावकः । सुभषितरत्नभाण्डागारे - " सुभषितरत्नखण्डमञ्जूषा "

१४०. ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्य्ते स्नेहमयस्तु पाशाः । सौन्दरनन्दरनम् ८.१५