यत्रायं पुरुषो म्रियते...
नाम्नो महिमा त्वेषः
यत्रायं पुरुषो म्रियते किमेनं न जहाति इति, नामेति । - बृहदारण्यकोपनिषत् ३-२-१२
यदा पुरुषो म्रियते तदा एनं किं न जहाति ? इति । नाम इति ।
जारत्कारवः आर्तभागः याज्ञवल्क्यं पप्रच्छ “यदा अयं पुरुषो म्रियते, तदा एनम् अत्यजत्
किम् अनुसरति?” इति । शरीरं मृत्वा गच्छति, भस्मीभवति अथवा मृदि सम्पद्यते ।
इन्द्रियाणि मनश्च नश्यन्ति । किं तत् तर्हि यत् अनश्यत् अनुवर्तते ?
‘नाम’ अनुसरति इति याज्ञवल्क्यः प्रतिवदति । नामैव नामधेयम् । मनुष्ये मृतेऽपि तस्य
‘नाम’ तु अमृतं सत् अनुवर्तते एव । अभिधेयस्यैव नाशः, न तु अभिधानस्य नाशः । अभिधानं
नित्यम्, अभिधेयं तु अनित्यम् । नाम अनन्तं ब्रह्मापि अनन्तम् । तस्मात् ‘नाम ब्रह्म’ इति
उपासीनस्य अनन्तफलानि भवन्ति । विश्वे देवा अनन्ताः, नामानि च अनन्तानि । तस्मात्
नामानि विश्वेदेवत्वेन उपासीत । नामनामिनोर्मध्ये नाम नित्यम् । नामी तु अनित्यः । तस्मात्
नामैव ब्रह्म । अयं नाम्नो महिमा ज्ञातो वा ?