यत्र तु अस्य सर्वम् आत्मैवाभूत्...
यत्र तु अस्य सर्वम् आत्मैवाभूत्, तत् केन कं जिघ्रेत्, पश्येत्, शृणुयात् अभिवदेत् ? - बृहदारण्यकोपनिषत् २-४-१४
यदा अस्य आत्मविदः 'इदं सर्वम् आत्मैव' इति ज्ञानम् उत्पन्नम्, तदा सः केन प्रमाणेन कं पदार्थं जिघ्रेत् ?
कं वा पश्येत् ? कं विषयं शृणुयात् ? कं वा अभिवदेत् ?
आत्मज्ञानोदयो नाम 'अद्वितीयः आत्मा एव अहमस्मि' इति निश्चयः । नैतत् केवलं वाचा उच्चारणम् , न च
शास्त्रज्ञानपाण्डित्यम् । किं तु अनुभवस्य रसपाकः । एवंविधं ब्रह्मज्ञानिनः भेदज्ञानं (त्रिपुटिज्ञानं ) सत्यतया नावशिष्यते ॥
त्रिपुटिज्ञानं नाम प्रमाता अहम् प्रमेयम् इमं प्रमाणेन जानामि इति त्रिवृत्कृतं ज्ञानम् । प्रमाता, प्रमाणम्, प्रमेयं च
परमार्थतः आत्मैव इति निश्चिते ज्ञाने जाते, पुनः तत्र सत्यत्वभ्रमः न सम्भवति । स आत्मविद्भवति । ततः सः केन
प्रमाणेन कीदृशं प्रमेयं कथं वा पश्येत् ? प्रमाणभूतानि इन्द्रियाणि प्रमेयभूताः पदार्थाः प्रमाता स्वयं च – एतत् त्रयमपि
आत्मैव सम्पन्नम् । एवंविधः व्यवहारः सम्भवति वा ?