यत्र हि द्वैतमिव भवति...

विकिसूक्तिः तः

यत्र हि द्वैतमिव भवति तदितरः इतरं पश्यति । - बृहदारण्यकोपनिषत् २-४-१४

यदा अज्ञः द्वैतमिव पश्यति, तदा सः आत्मनः भिन्नं सत्यं वस्तु पश्यति ।

द्विधा इतं द्वैतम् । प्रमातृप्रमाणप्रमेयरूपेण दृश्यमानत्वमेव हि द्वैतं नाम । द्वैतस्यैव हि 'त्रिपुटिज्ञानम्' इति
नामान्तरम् । इदं त्रिपुटिज्ञानं तु अज्ञानविलासमात्रमेव, न तु पारमार्थिकम् । आत्मज्ञानरहितानाम् अविवेकिनाम्
इदं त्रिपुटिज्ञानमेव समग्ज्ञानमिव अवभासते ॥

त्रिपुटिज्ञानमेव सत्यत्वेन स्वीकृत्य अज्ञः नेत्रेण प्रमाणेन रूपं प्रमेयं द्रष्टा सन्, प्रमाता सन् पश्यति । अज्ञदृष्ट्या
द्रष्टृदृश्यदर्शनानि आत्मनः भिन्नानि सत्यान्येव भवन्ति । तथा तस्य प्रमाणानि प्रमेयानि प्रमातारश्च सत्या इव
अवभासन्ते । द्वैतवस्त्वनुवादसमयेऽपि श्रुतिः ‘इव’ शब्दप्रयोगं करोति इति न विस्मर्तव्यम् । आत्मज्ञानोदय समकालमेव
सर्वोऽप्ययं भेदः बाधितो भवति, आत्मैव सम्पद्यते । ज्ञानाज्ञानयोः भेदः ज्ञातो वा ?