यत् तदद्रेश्यम् अग्राह्यम्...

विकिसूक्तिः तः

अक्षरस्य स्वरूपम्

यत् तदद्रेश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुः श्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ॥ - मुण्डकोपनिषत् १-१-६

अद्रेश्यम्, अग्राह्यम्, अगोत्रम्, अवर्णम्, अचक्षुः श्रोत्रम्, अपाणिपादम्, नित्यम्,
विभुम्, सर्वगतम्, सुसूक्ष्मम्, अव्ययम्, जगत्कारणाभूतं यत् तदेव अक्षरम् ।
इदम् अक्षरं धीराः सर्वत्र पश्यन्ति ॥

उपनिषत्सु प्रतिपादितस्य अक्षरस्य स्वरूपं धैर्येण उपदिशति अयं मन्त्रः । पुराणेषु
उपदिष्टानां देवतानां शरीरेंद्रियाणि पत्नीपुत्रादयश्च विद्यन्ते, न तु वेदान्तप्रतिपाद्यस्य
परस्य ब्रह्मणः । वेदान्तेषु अक्षरम् इत्येव तु कथ्यते ब्रह्म ॥

इदम् अक्षरम् इन्द्रियप्रमाणागोचरं कर्मेन्द्रियाविषयं च भवति । एतदक्षरम् अगोत्रम् ।
अकार्यम् अकारणं च अक्षरम् । इन्द्रियरहितम् अन्तः करणरहितं च अक्षरम् । व्यापकं
सर्वगतं सुसूक्ष्मम् अव्ययं च अक्षरम् । आत्मत्वेन एददक्षरं ये जानन्ति ते एव ज्ञानिनः ।
ते एव ब्रह्मनिष्ठाः ॥