यत् शक्यं ग्रसितुं...

विकिसूक्तिः तः

सुभाषितम्

यत् शक्यं ग्रसितुं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत् तदाद्यं भूतिमिच्छता ॥




तात्पर्यम्

यः प्रगतिं समृद्धिं वा साधयितुम् इच्छेत् सः यावत् शक्यं तावत्, यद् जीर्णीकर्तुं शक्नुयात् तावत्, यस्य खादनेन हितमेव परिणामं प्राप्नुयात् तादृशम् आहारं सेवेत ।

"https://sa.wikiquote.org/w/index.php?title=यत्_शक्यं_ग्रसितुं...&oldid=14965" इत्यस्माद् प्रतिप्राप्तम्