यत् सुखं सेव्यमानोऽपि...

विकिसूक्तिः तः

सुभाषितम्

यत् सुखं सेव्यमानोऽपि धर्मार्थाभ्यां न हीयते ।
कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥




तात्पर्यम्

यस्य सुखस्य अनुभवनेन धर्मार्थयोः हानिः न भवेत् तच्च सुखं कामं (यथेच्छम्) अनुभोक्तुं शक्यते । किन्तु धर्मार्थयोः हानिकारकं सुखं मूढवत् न अनुभवेत् कदापि ।