यथादित्यः समुद्यन् वै...

विकिसूक्तिः तः

सुभाषितम्

यथादित्यः समुद्यन् वै तमः पूर्वं व्यपोहति ।
एवं कल्याणमातिष्ठन् सर्वपापैः प्रमुच्यते ॥




तात्पर्यम्

(जगत्कल्याणेच्छया) उदीयमानस्य सूर्यस्य आगमनसमनन्तरमेव परितः आवृतः अन्धकारः नश्यति तथा जलकल्याणकार्ये व्यापृतः जनः सर्वेभ्यः पापेभ्यः मुक्तः भविष्यति ।