यदचेतनोऽपि पादैः...

विकिसूक्तिः तः

सुभाषितम्

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतविकृतिः कथं सहते ॥

yadacetano:'pi pādaiḥ spṛṣṭaḥ prajvalati saviturinakāntaḥ ।
tattejasvī puruṣaḥ parakṛtavikṛtiḥ kathaṃ sahate ॥

पदच्छेदः

यत्, अचेतनः, अपि, पादैः, स्पृष्टः, प्रज्वलति, सवितुः, इनकान्तः, तत्, तेजस्वी, पुरुषः, परकृतविकृतिः कथं, सहते ।


तात्पर्यम्

सूर्यकिरणैः स्पर्शः भवति चेत् अपि चन्द्रकान्तमणिः दहति । तद्वत् तेजस्वी पुरुषः अन्येन अपमाननं कथं वा सहेत ? क्षणमपि न सहते इत्यर्थः ।

"https://sa.wikiquote.org/w/index.php?title=यदचेतनोऽपि_पादैः...&oldid=16776" इत्यस्माद् प्रतिप्राप्तम्