यदा चर्मवदाकाशं...
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ - श्वेताश्वतरोपनिषत् ६-२०
मानवाः आकाशं यदा चर्मवत् वेष्टितुं समर्थाः भवेयुः, तदा ब्रह्म
अविज्ञायापि मुक्ताः भवेयुः ।
आत्मज्ञानेन किमस्माकम् ? किं ज्ञानादेव मुक्तिः प्राप्येत ? ज्ञानात्
भिन्नानि जपध्यानपूजापारायणहोमदानादीनि अनेकानि साधनानि
सन्ति खलु ? एतैरपि साधनैः साक्षादेव मुक्तिं लब्ध्वा संसारबन्धनात्
मानवाः मुच्येरन् खलु ? इति चेत् ॥
अस्य प्रश्नस्य साक्षात् प्रतिवचनं तु ‘नैव शक्यते’ इति । “ज्ञानादेव
मुच्यते, नान्यथा” इति इममर्थं सुन्दरदृष्टान्तेन दर्शयति अयं मन्त्रः।
आकाशं चर्मवत्, कटवत्, वर्तुलाकारेणा वेष्टितुं यदि शक्येत, तदा
आत्मज्ञानं विनापि साधनान्तरैः मानवाः मुच्येरन् । एतदुक्तं भवति,
यथा आकाशं कटवत् वेष्टितुं न शक्यते, तथैव आत्मानम् अविदित्वा,
आत्मज्ञानं विना साधनान्तरैः मुक्तिः नैव प्राप्यते इत्यभिप्रायः ।
आत्मज्ञानादेव मुक्तिः इत्यर्थः ॥