यदा ह्येवैष एतस्मिन् अदृश्ये...
यदा ह्येवैष एतस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
प्रतिष्ठां विन्दते । अथ सोऽभयङ्गतो भवति ॥ - तैत्तिरीयोपनिषत् २-७-४
यदा एषः जिज्ञासुः एतस्मिन् अदृश्ये अनात्म्ये अनिरुक्ते अनिलयने ब्रह्मणि अभयां प्रतिष्ठां
विन्दते तदैव सद्यः सः अभयं प्राप्नोति ।
सर्वस्यापि मानवस्य ‘भयम्’ अस्त्येव खलु ? न कयापि लौकिक्या सम्पदा वा विद्यया वा इदं
भयं परिहर्तुं शक्यते । वेदान्तेषु पुनः भयपरिहाराय सूक्तः उपायोऽस्ति । अयं मन्त्रः भयपरिहाराय
उपायं सूचयति ॥
आत्मनि सम्यक् विज्ञाते सति भयस्य प्रश्न एव नास्ति । ब्रह्मैव हि आत्मनः निजस्वरूपम् । ब्रह्मैव हि
अहम्, अहम् अदृश्यः इति अकार्यम् आत्मानं जानीयात् । आत्मा अनात्म्यः, अशरीरः इति पश्येत् ।
आत्मा अनिरुक्तः प्रमाणागोचरः इति जानीयात् । आत्मा अनिलयनः, स्वतन्त्रः इति विद्यात् । एवम्
अभेदज्ञानेन अभयप्राप्तिर्भवति ॥