यदेव साक्षात् अपरोक्षात्...

विकिसूक्तिः तः

यदेव साक्षात् अपरोक्षात् ब्रह्म, य आत्मा सर्वान्तरः, तं मे व्याचक्ष्व । - बृहदारण्यकोपनिषत् ३-४-१

यत् साक्षात् अपरोक्षाद् ब्रह्म, यः सर्वान्तरः आत्मा, तं मे व्याचक्ष्व इति उषस्तः चाक्रायणः याज्ञवल्क्यं पप्रच्छ ।

अत्यन्तं प्रसिद्धः जनप्रियश्चायं मन्त्रः । न हि ब्रह्म नाम आत्मनो भिन्नं वस्तु । ब्रह्म हि आत्मनो भिन्नतया दूरस्थं
परोक्षं वस्तु न भवति । ब्रह्म नाम निरुपाधिकं निरतिशयं तत्त्वमित्यर्थः । इदं हि असंसारि कूटस्थं परिपूर्णं तत्त्वम् ।
एतद् ब्रह्म साक्षात् । अस्माकं प्रत्यक्स्वरूपमेव ब्रह्म । परं ब्रह्म अपरोक्षं च, अस्मात्स्वरूपात् भिन्नतया विद्यमानम्
अनात्मतत्त्वं न भवति ब्रह्म इत्यर्थः ॥

अस्यैव ‘आत्मा’ इत्यपि नाम भवति । आत्मा हि नाम स्वयमेव । अयं सर्वान्तरः । नायमात्मा देहमात्रपरिच्छिन्नः ।
किं तु अन्तर्बहिश्च परिपूर्णोऽयमात्मा । ‘इमम् आत्मानं ब्रूहि’ इति उषस्तश्चाक्रायणः याज्ञवल्क्यं पृच्छति । अयमेक
एव सर्वप्राणिनां प्रत्यागात्मभूतः असंसारी आत्मा ॥