यस्य कृत्यं न जानन्ति...

विकिसूक्तिः तः

सुभाषितम्

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥




तात्पर्यम्

यस्य जनस्य भाविकृत्यस्य चिन्तनम्, एतावता चिन्तितः विषयश्च अन्यैः ऊहितुं न शक्यते, किन्तु कार्यस्य समाप्तेः अनन्तरमेव सर्वैः अवगम्येत सः जनः धीमान् एव ।