यस्य नास्ति स्वयं प्रज्ञा...
पठन सेटिंग्स
सुभाषितम्
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥
चाणक्यनीतिः १०-९
yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim ।
locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati ॥
पदच्छेदः
यस्य, नास्ति, स्वयं, प्रज्ञा, शास्त्रं, तस्य, करोति, किम्, लोचनाभ्यां, विहीनस्य, दर्पणः, किं, करिष्यति ॥
तात्पर्यम्
स्वयं बुद्धिः यस्य न भवेत् तस्य शास्त्रम् अप्रयोजकं भवति । अन्धस्य दर्पणेन किं प्रयोजनम् ?
आङ्ग्लार्थः
The scriptures are useless to one who does not have intelligence itself. What is the use of a mirror for the blind?