याचितक- मण्डनन्यायः

विकिसूक्तिः तः

कस्याश्चित् समीपे भूषणानि न भवन्ति चेत् सा अन्यस्याः सकाशात् कञ्चिकालं यावत् तानि भूषाणानि याचित्वा प्राप्तुं शक्नोति । तथा सर्वेषां पुरतः भूषणदर्पं धारयितुं शक्नोति । यथाः <poem> अस्याः मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रान् । अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥ श्रीहर्षनैषधीयचरिते ८-५६ अर्थः दमयन्त्याः मुखशोभायाः प्रतिबिम्बं जले दर्पणे च भवति । ततः एव काञ्चित् शोभां सूर्यः चन्द्रश्च प्राप्य लोके ते जस्विनौ इति यशः धारयतः ।

"https://sa.wikiquote.org/w/index.php?title=याचितक-_मण्डनन्यायः&oldid=10859" इत्यस्माद् प्रतिप्राप्तम्