यावद् भ्रियेत जठरं...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥
तात्पर्यम्
उदरपोषणाय यावदपेक्षितं तावती सम्पत्तिः एव मानवानां स्वत्वम् । तदपेक्षया यः अधिकां सम्पत्तिम् इच्छेत् सः चोरः । अतः दण्डार्हः ।