या ह्येव पुत्रैषणा सा...

विकिसूक्तिः तः

त्रयमपि एकमेव

या ह्येव पुत्रैषणा सा वित्तैषणा, या वित्तैषणा
सा लोकैषणा, उभे ह्येते एषणे एव भवतः । - बृहदारण्यकोपनिषत् ३-५-१

या पुत्रैषणा सा एव वित्तैषणा, या वित्तैषणा सा एव
लोकैषणा । उभे ह्येते एषणे एव भवतः ॥

पुत्रैषणा नाम पुत्रं प्राप्तुम् इच्छा । वित्तैषणा नाम धनं
प्राप्तुम् आशा । लोकैषणा नाम स्वर्गलोकं जेतुं कामः ।
सर्वथापि तिस्रोऽपि एषणाः कामा एव । एषणा, कामः,
आशा इति पर्यायपदानि । प्राप्तुम् इच्छा – इत्यर्थः ॥

इच्छायाः कारणम् अविद्या एव । अविद्यया एव हि कामानाम्
उदयः । अविद्यारहितस्य कुतो वा कामानाम् अवकाशः ?
केषु विषयेषु कामाः ? निवृत्ताविद्यस्य कामानामपि निवृत्तिरेव ।
तस्मात् अविद्यावत एव कामाः, कामविलासाः। अविद्यावतां संसारिणां
मध्ये केषाञ्चित् पत्नीपुत्रेषु काम, केषाञ्चित् वाहनख्यात्यादिषु
कामः, अपरेषां पुण्यसम्पादने कामः, इतरेषां केषाञ्चित् स्वर्गादिलोकेषु
कामः । सर्वथापि सर्वमपि काम एव । अविद्या एव हि कामानां मूलम् ।
अविद्याभावे कामाभावः ॥