युक्तियुक्तं प्रगृह्णीयाद्...

विकिसूक्तिः तः

सुभाषितम्

युक्तियुक्तं प्रगृह्णीयाद् बालादपि विचक्षणः । ।
रवेरविषयं वस्तु किं न दीपः प्रकाशयेत् ॥ ॥

yuktiyuktaṃ pragṛhṇīyād bālādapi vicakṣaṇaḥ ।
raveraviṣayaṃ vastu kiṃ na dīpaḥ prakāśayet ॥

पदच्छेदः

युक्तियुक्तम्, प्रगृह्णीयाद्, बालात्, अपि, विचक्षणः, रवेः, अविषयं, वस्तु, किम्, न, दीपः, प्रकाशयेत् ।


तात्पर्यम्

बुद्धिमान् जनः बालकात् अपि हितकरं वचनं स्वीकुर्यात्, यतः सूर्यः यं पदार्थं न प्रकाशयति तं पदार्थं किं दीपकः प्रकाशयितुं न शक्नोति ? अर्थात् सूर्यः यं पदार्थं न प्रकाशयति दीपकः तं पदार्थं प्रकाशयितुं शक्नोति ।


आङ्ग्लार्थः

Even if a small boy says something appropriate – one must listen and take note. Isn’t a small wick capable of lighting up places that are not lit up by the Sun?