युद्धकाण्ड

विकिसूक्तिः तः
Jump to navigation Jump to search


वाल्मीकि रामयणग्रन्थस्य भाग अस्ति।

प्रथमः सर्गः ॥६-१॥[सम्पाद्यताम्]

श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥

कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥

न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।
अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥

देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।
अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।

को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।

भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।

यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।

यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।

नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।

तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।

अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।

इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।

एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।

इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥
हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।

ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।

सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।

कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥
समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।

इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
हनूमन्तम् महाबाहुस्ततो ध्यानमुपागमत् ।

द्वितीयः सर्गः ॥६-२॥[सम्पाद्यताम्]

तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।
उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥

किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥

सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।
प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥

मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥

सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥

इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥

एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।
विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥

रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।
सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥

तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।
दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥

हतम् च रावणम् उद्धे दर्शनादवधारय ।
अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥

लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥

सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।
इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥

तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥

यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।
तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥

अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।
शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥

विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।
तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥

मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।
न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥

गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥

अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।
तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥

निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।
लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥

सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥

सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।
इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥

तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।
कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥

हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।
किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥

निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ।

तृतीयः सर्गः ॥६-३॥[सम्पाद्यताम्]

सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।
प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥

तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।
सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥

कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।
ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥

बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।
गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥

यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।
सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥

श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।
वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥

श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।
गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥

राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।
पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥

विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥

प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।
महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥

दृढ बद्ध कवाटानि महापरिघवन्ति च ।
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥

तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।
आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥

द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।
शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥

सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।
मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥

सर्वतः च महाभीमाः शीत तोया महाशुभाः ।
अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥

द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।
यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥

त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।
यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥

एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।
काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥

स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।
उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥

लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।
न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥

स्थिता पारे समुद्रस्य दूर पारस्य राघव ।
नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥

शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।
वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥

परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।
शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥

अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।
शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥

नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।
चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥

प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।
चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥

न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।
रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥

शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।
यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥

ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।
दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥

बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।
येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥

हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥

नीलः सेना पतिः चैव बल शेषेण किम् तव ।
प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥

सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।
सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥

एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥

चतुर्थः सर्गः ॥६-४॥[सम्पाद्यताम्]

श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः ।
ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः ॥६-४-१॥

याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः ।
क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते ॥६-४-२॥

अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः ॥६-४-३॥

सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः ।
सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते ॥६-४-४॥

जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः ।
उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते ॥६-४-५॥

अभिप्रयाम सुग्रीव सर्व अनीक समावृताः ।
निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे ॥६-४-६॥

निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् ।
उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम ॥६-४-७॥

विजयम् समनुप्राप्तम् शम्सति इव मनो रथम् ।
ततो वाबरराहेब कज्श्मणेन सुपूजितः ॥६-४-८॥

उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।
अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् ॥६-४-९॥

वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ।
फल मूलवता नील शीत कानन वारिणा ।
पथा मधुमता च आशु सेनाम् सेना पते नय ॥६-४-१०॥

दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् ॥६-४-११॥

राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः ।
निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः ॥६-४-१२॥

अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् ।
यत्तु फल्गु बलम् किम्चित्तदत्रैवोपपद्यताम् ॥६-४-१३॥

एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् ।
सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः ॥६-४-१४॥

कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः ।
गजः च गिरि सम्काशो गवयः च महाबलः ॥६-४-१५॥

गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः ।
यातु वानर वाहिन्या वानरः प्लवताम् पतिः ॥६-४-१६॥

पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः ।
गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः ॥६-४-१७॥

यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः ।
यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् ॥६-४-१८॥

अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः ।
अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः ॥६-४-१९॥

सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा ।
जाम्बवामः च सुषेणः च वेग दर्शी च वानरः ॥६-४-२०॥

ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः ।
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ॥६-४-२१॥

व्यादिदेश महावीर्यान् वानरान् वानर Rषभः ।
ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः ॥६-४-२२॥

गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा ।
ततो वानर राजेन लक्ष्मणेन च पूजितः ॥६-४-२३॥

जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् ।
शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि ॥६-४-२४॥

वारणाभिः च हरिभिर् ययौ परिव्Rतस् तदा ।
तम् यान्तम् अनुयाति स्म महती हरि वाहिनी ॥६-४-२५॥

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-४-२६॥

क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् ।
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ॥६-४-२७॥

उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः ।
अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ॥६-४-२८॥

पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् ।
रावणो नो निहन्तव्यः सर्वे च रजनी चराः ॥६-४-२९॥

इति गर्जन्ति हरयो राघवस्य समीपतः ।
पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च ॥६-४-३०॥

पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह ।
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ॥६-४-३१॥

बहुभिर् बलिभिर् भीमैर् व्Rताः शत्रु निबर्हणः ।
हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः ॥६-४-३२॥

सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् ।
कोटी शत परीवारः केसरी पनसो गजः ॥६-४-३३॥

अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति ।
सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः ॥६-४-३४॥

सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः ।
तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः ॥६-४-३५॥

सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् ।
वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ॥६-४-३६॥

सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् ।
एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः ॥६-४-३७॥

अपश्यम्स् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् ।
सागर ओघ निभम् भीमम् तद् वानर बलम् महत् ॥६-४-३८॥

रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् ।
वर्जयन्नगराभ्याशाम्स्तथा जनपदानपि ॥६-४-३९॥

सागरौघनिभम् भीमम् तद्वानरबलम् महत् ।
निह्ससर्प महाघोषम् भीम वेग इव अर्णवः ॥६-४-४०॥

तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः ।
तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः ॥६-४-४१॥

कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ ।
महद्भ्याम् इव सम्स्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ ॥६-४-४२॥

ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् ॥६-४-४३॥

तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा ।
उवाच प्रतिपूर्ण अर्थः स्म्Rतिमान् प्रतिभानवान् ॥६-४-४४॥

हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् ।
समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि ॥६-४-४५॥

महान्ति च निमित्तानि दिवि भूमौ च राघव ।
शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये ॥६-४-४६॥

अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः ।
पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः ॥६-४-४७॥

प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः ।
उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः ॥६-४-४८॥

ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥६-४-४९॥

त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः ॥६-४-५०॥
पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् ।

विमले च प्रकाशेते विशाखे निरुपद्रवे ॥६-४-५१॥
नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् ।

नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते ॥६-४-५२॥
मूलम् मूलवता स्प्Rष्टम् धूप्यते धूम केतुना ।

सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् ॥६-४-५३॥
काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् ।

प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च ।
प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः ॥६-४-५४॥

व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो ।
देवानाम् इव सैन्यानि सम्ग्रामे तारकामये ॥६-४-५५॥

एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि ।
इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् ॥६-४-५६॥

अथ आव्Rत्य महीम् कृत्स्नाम् जगाम महती चमूः ।
ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता ॥६-४-५७॥

कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः ।
भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् ॥६-४-५८॥

सा स्म याति दिवा रात्रम् महती हरि वाहिनी ।
हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥६-४-५९॥

उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् ।
नदीस्रोताम्सि सर्वाणि सस्यन्दुर्विपरीतवत् ॥६-४-६०॥

सराम्सि विमलाम्भाम्सि द्रुमाकीर्णाम्श्च पर्वतान् ।
समान् भूमिप्रदेशाम्श्च वनानि फलवन्ति च ॥६-४-६१॥

मध्येन च समन्ताच्च वनानि फलवन्ति च ।
समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥६-४-६२॥

ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः ।
हरयो राघवस्यार्थे समारोपितविक्रमाः ॥६-४-६३॥

हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् ।
यौवनोत्सेकजाद्दर्पाद्विविधाम्श्चक्रुरध्वनि ॥६-४-६४॥

तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे ।
केचित्किलकिलाम् चक्रुर्वानरा वनगोचराः ॥६-४-६५॥

प्रास्फोटयम्श्च पुच्छानि सम्निजघ्नः पदान्यपि ।
भुजान्विक्षिप्य शैलाम्श्च द्रुमानन्ये बभञ्जरे ॥६-४-६६॥

आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः ।
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥६-४-६७॥

ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥६-४-६८॥

ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ।
वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही ॥६-४-६९॥

सा स्म याति दिवारात्रम् महती हरिवाहिनी ।
प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥६-४-७०॥

वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः ।
मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत ॥६-४-७१॥

ततः पादप सम्बाधम् नाना मृग समाकुलम् ।
सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् ॥६-४-७२॥

काननानि विचित्राणि नदी प्रस्रवणानि च ।
पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च ॥६-४-७३॥

चम्पकाम्स् तिलकामः चूतान् अशोकान् सिन्दु वारकान् ।
तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः ॥६-४-७४॥

अशोकाम्श्च करञ्जाम्श्च प्लक्षन्य्ग्रोधपादपान् ।
जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः ॥६-४-७५॥

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति ताम् ॥६-४-७६॥

मारुतः सुखसम्स्पर्शोओ वाति चन्दनशीतलः ।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥६-४-७७॥

अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः ।
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः ॥६-४-७८॥

सुमहद्वानरानीकम् चादयामास सर्वतः ।
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥६-४-७९॥

केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता ॥६-४-८०॥

चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ।
रञ्जकास्तिलकाश्चैव नागवृक्षश्च पुष्पिता ॥६-४-८१॥

चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः ।
मुचुलिन्दार्जुनाश्चैव शिम्शपाः कुटजास्तथा ॥६-४-८२॥

हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ॥६-४-८३॥
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ।
प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः ॥६-४-८४॥

व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च ।
चक्रवाकानुचरिताः कारण्डवनिषेविताः ॥६-४-८५॥

प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः ।
ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः ॥६-४-८६॥

व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ।
पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः ॥६-४-८७॥

वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥६-४-८८॥

स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः ।
अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः ॥६-४-८९॥

फलानि अमृत गन्धीनि मूलानि कुसुमानि च ।
बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः ॥६-४-९०॥

द्रोण मात्र प्रमाणानि लम्बमानानि वानराः ।
ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः ॥६-४-९१॥

पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः ।
विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः ॥६-४-९२॥

वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः ।
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे ॥६-४-९३॥

बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः ।
यथा कमल केदारैः पक्वैर् इव वसुम् धरा ॥६-४-९४॥

महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः ।
अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् ॥६-४-९५॥

ततः शिखरम् आरुह्य रामो दशरथ आत्मजः ।
कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् ॥६-४-९६॥

ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् ।
आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् ॥६-४-९७॥

अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् ।
रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥६-४-९८॥

अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः ।
वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् ॥६-४-९९॥

एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् ।
इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥६-४-१००॥

अतः परम् अतीरो अयम् सागरः सरिताम् पति ।
न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः ॥६-४-१०१॥

तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह ।
यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् ॥६-४-१०२॥

इति इव स महाबाहुः सीता हरण कर्शितः ।
रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥६-४-१०३॥

सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव ।
सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने ॥६-४-१०४॥

स्वाम् स्वाम् सेनाम् समुत्स्Rज्य मा च कश्चित् कुतो व्रजेत् ।
गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः ॥६-४-१०५॥

रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः ।
सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते ॥६-४-१०६॥

विरराज समीपस्थम् सागरस्य तु तद् बलम् ।
मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः ॥६-४-१०७॥

वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः ।
विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः ॥६-४-१०८॥

तेषाम् निविशमानानाम् सैन्यसम्नाहनिःस्वनः ।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥६-४-१०९॥

सा महाअर्णवम् आसाद्य ह्Rष्टा वानर वाहिनी ।
त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥६-४-११०॥

सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायु वेग समाधूतम् पश्यमाना महाअर्णवम् ॥६-४-१११॥

दूर पारम् असम्बाधम् रक्षो गण निषेवितम् ।
पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः ॥६-४-११२॥

चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये ।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥६-४-११३॥

चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् ।
चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः ॥६-४-११४॥

दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् ।
अवगाढम् महासत्तैर् नाना शैल समाकुलम् ॥६-४-११५॥

सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् ।
मकरैर् नाग भोगैः च विगाढा वात लोहिताः ॥६-४-११६॥

उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः ।
अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् ॥६-४-११७॥

सुर अरि विषयम् घोरम् पाताल विषमम् सदा ।

सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् ।
सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥६-४-११८॥

सम्पृक्तम् नभसा हि अम्भः सम्प्Rक्तम् च नभो अम्भसा ॥६-४-११९॥
ताद्Rग् रूपे स्म द्Rश्येते तारा रत्न समाकुले ।

समुत्पतित मेघस्य वीच्चि माला आकुलस्य च ।
विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च ॥६-४-१२०॥

अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीम निह्स्वनाः ॥६-४-१२१॥
ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे ।

रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना ॥६-४-१२२॥
उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् ।

ददृशुस् ते महात्मानो वात आहत जल आशयम् ॥६-४-१२३॥
अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः ।

ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः ॥६-४-१२४॥
ब्रान्त ऊर्मि जल सम्नादम् प्रलोलम् इव सागरम् ।

पञ्चमः सर्गः ॥६-५॥[सम्पाद्यताम्]

सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता ।
सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥

मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ ।
विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥

निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः ।
पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥

शोकः च किल कालेन गच्चता हि अपगच्चति ।
मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥

न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च ।
तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥

वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश ।
त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥

तन् मे दहति गात्राणि विषम् पीतम् इव आशये ।
हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥

तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा ।
रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥

अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना ।
कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥

बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् ।
यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥

केदारस्य इव केदारः स उदकस्य निरूदकः ।
उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥

कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् ।
विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥

कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् ।
ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥

तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ ।
कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥

सा नूनम् असित अपान्गी रक्षो मध्य गता सती ।
मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥

कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति ।
राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥

अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति ।
विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥

स्वभाव तनुका नूनम् शोकेन अनशनेन च ।
भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥

कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् ।
सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥

कदा नु खलु माम् साध्वी सीता अमर सुता उपमा ।
स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥

कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् ।
सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥

एवम् विलपतस् तस्य तत्र रामस्य धीमतः ।
दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥

आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत ।
स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥

षष्ठः सर्गः ॥६-६॥[सम्पाद्यताम्]

लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।
राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥

अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।
धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥

तेन वानर मात्रेण दृष्टा सीता च जानकी ।
प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥

आविला च पुरी लंका सर्वा हनुमता कृता ।
किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥

उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।
मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥

तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।
त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥

तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।
मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥

मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।
सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥

दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।
एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥

एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।
गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥

करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।
यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥

एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।
ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥

मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।
बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥

पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।
अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥

न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।
तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥

कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।
वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥

रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।
तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥

तरसा युक्त रूपेण सानुजः सबल अनुगः ।
समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥६-६-१८॥

तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।
हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥

सप्तमः सर्गः ॥६-७॥[सम्पाद्यताम्]

इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः ।
ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥

द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।
राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥

सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् ।
त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥

कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः ।
सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥

स महाईश्वर सख्येन श्लाघमानस् त्वया विभो ।
निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥

विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।
त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥

मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता ।
दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥

दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः ।
विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥

निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् ।
वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥

अक्षया बलवन्तः च शूरा लब्ध वराः पुनः ।
त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥

स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम ।
मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥

शूराः च बलवन्तः च वरुणस्य सुता रणे ।
निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥

मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् ।
कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥

महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् ।
अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥

जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः ।
सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥

क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः ।
आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥

तेषाम् वीर्य गुण उत्साहैर् न समो राघवो रणे ।
प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥

तिष्ठ वा किम् महाराज श्रमेण तव वानरान् ।
अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥

अनेन हि महाराज महेश्वरमनुत्तमम् ।
इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥

शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् ।
गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥

रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् ।
रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥

अनेन हि समासाद्य देवानाम् बलसागम् ।
गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥

पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।
गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥

तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् ।
यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥

राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् ।
हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥

अष्टमः सर्गः ॥६-८॥[सम्पाद्यताम्]

ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।
अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥

देव दानव गन्धर्वाः पिशाचपतगौरगाः ।
न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥

सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।
न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥

सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।
करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥

रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।
न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥

अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।
इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥

अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।
श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥

अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।
प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥

ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।
प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥

किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।
रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥

अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।
आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥

इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।
उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥

कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥

काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥

प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।
स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥

ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।
चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥

आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।
अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥

एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।
अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥

कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।
अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥

सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।
अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥

सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥

क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।
स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥

एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥

अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।
स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥

नवमः सर्गः ॥६-९॥[सम्पाद्यताम्]

ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।
सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥

अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।
इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥

प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।
धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥

परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।
चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥

प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥

अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।
कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥

तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥

अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।
तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥

प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥

अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।
जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥

समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।
कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥

बलानि अपरिमेयानि वीर्याणि च निशा चराः ।
परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥

किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।
आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥

खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।
अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥

एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥

न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।
वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥

यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।
पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥

यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।
न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥

विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।
रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥

प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।
हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥

पुरा शरत् सूर्य मरीच्चि सम्निभान् ।
नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।

सृजति अमोघान् विशिखान् वधाय ते ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥

त्यजस्व कोपम् सुख धर्म नाशनम् ।
भजस्व धर्मम् रति कीर्ति वर्धनम् ।

प्रसीद जीवेम सपुत्र बान्धवाः ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥

दशमः सर्गः ॥६-१०॥[सम्पाद्यताम्]

ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः ।
राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥६-१०-१॥

शैलाग्रचयसम्काशम् शैलशृज्~गमिवोन्नतम् ।
सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥६-१०-२॥

मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् ।
राक्षसैराप्तपर्याप्तैह् सर्वतः परिरक्षितम् ॥६-१०-३॥

मत्तमातज्~गनिःश्वासैर्व्याकुलीकृतमारुतम् ।
शज्~खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥६-१०-४॥

प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् ।
तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥६-१०-५॥

गन्धर्वाणामिवावासमालयम् मरुतामिव ।
रत्नसम्चयसम्बाधम् भवनम् भोगिनामिव ॥६-१०-६॥

तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् ।
अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥

पुण्यान् पुण्याहघोषाम्श्च वेदिविद्भिरुदाहृतान् ।
शुश्राव सुमहातेजा भ्रातुर्विजयसम्श्रितान् ॥६-१०-८॥

पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः ।
मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥

स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा ।
असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥६-१०-१०॥

स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् ।
जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥६-१०-११॥

स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ ।
उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥

प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः ।
देशकालार्थसम्वादि दृष्टलोकपरावः ॥६-१०-१३॥

यदा प्रभृति वैदेही सम्प्राप्तेह परतप ।
तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥

सस्फुलिज्~गः सधूमार्चिह् सधूमकलुषोदयः ।
मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥६-१०-१५॥

अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।
परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥

गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः ।
दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥

खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च ।
न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥

वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः ।
समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥

गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।
उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥

क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः ।
श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥

तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् ।
रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥

इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया ।
तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥

अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते ।
रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥

प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ।
अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥

सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति ।
इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥

रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः ।

हितम् महार्थम् मऋदु हेतुसम्हितम् ।
व्यतीतकालायतिसम्प्रतिक्षमम् ।

निशम्य तद्वाक्यमुपस्थितज्वरः ।
प्रसज्~गवानुत्तरमेत दब्रवीत् ॥६-१०-२७॥

भयम् न पश्यामि कुतश्चिदप्यहम् ।
न राघवः प्राप्स्यति जातु मैथिलीम् ।

सुरैः सहेन्द्रैरपि सम्गरे कथम् ।
ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥६-१०-२८॥

इत्येवमुक्र्वा सुरसैन्यनाशनो ।
महाबलः सम्यति चण्डविक्रमः ।

दशाननो भ्रातरमाप्तवादिनम् ।
विसर्जयामास तदा विभीषणम् ॥६-१०-२९॥

एकादशः सर्गः ॥६-११॥[सम्पाद्यताम्]

स बभुव कृशो राजा मैथिलीकाममोहितः ।
असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥

अतीतसमये काले तस्मिन्वे युधि रावणः ।
अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥

स हेमजालविततम् मणिविद्रुमभूषितम् ।
उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥

तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।
प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥

असिचर्मधरा योधाः सर्वायुधधरास्ततः ।
राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥

नानाविकृतवेषाश्च नानाभूषणभूषिताः ।
पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥

रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः ।
अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥

गदापरिघहस्ताश्च शक्तितोमरपाणयः ।
परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥

ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् ।
तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥

स नेमिघोषेण महान्सहसाभिनिनादयन् ।
राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥

विमलम् चातपत्रम् च पगृहीतमशोभत ।
पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥

हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।
चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥

ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।
राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥

राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः ।
अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥

सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् ।
विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥

ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् ।
प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥

तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् ।
महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥

ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।
समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥

कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः ।
राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥

अनुगेहमवस्थय विहारशयनेषु च ।
उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥

ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् ।
नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥

सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।
सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥

ते वाहनान्यवस्थाप्य यानानि विविधानि च ।
सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥

राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।
पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥

ते समेत्य सभायाम् वै राक्षसा राजशासनात् ।
यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥

मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥

समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।
सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥

ततो महात्मा विपुलम् सुयुग्यम् ।
रथम् वरम् हेमविचित्रिताङ्गम् ।
शुभम् समास्थाय ययौ यशस्वी ।
विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥

स पूर्वजायावरजः शशम्स ।
ना माथ पश्चाच्चरणौ ववन्दे ।
शुकः प्रहस्तश्च तथैव तेभ्यो ।
ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥

सुवर्णनानामणिभुषणानाम् ।
सुवाससाम् सम्सदि राक्षसानाम् ।
तेषाम् परार्थ्यगुरुचन्दनानाम् ।
स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥

न चुक्रुशुर्नानृतमाह कश्चि ।
त्सभासदो नापि जजल्पुरुच्चैः ।
सम्सिद्धार्थः सर्व एवोग्रवीर्या ।
भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥

स रावणः शस्त्रभृताम् मनस्विनाम् ।
महाबलानाम् समितौ मनस्वी ।
तप्याम् सभायाम् प्रभया चकाशे ।
मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥

द्वादशः सर्गः ॥६-१२॥[सम्पाद्यताम्]

स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।
प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥

सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥

स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।
विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥

ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥

विहितम् बहिरन्तश्च बलम् बलवतस्तव ।
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥

प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।
सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥

प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।
धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥

सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥

ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।
भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥

अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।
कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥

अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।
सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥

इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥

सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।
त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥

तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।
हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥

सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥

हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।
उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥

पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥

शोकसम्तापनित्येन कामेन कलुषीकृतः ।
सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥

प्रतीक्षमाणा भर्तारम् राममायतलोचना ।
तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥

श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।
कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥

बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।
अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥

दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।
मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥

तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥

परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।
सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥

अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥

न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥

तस्य कामपरीतस्य निशम्य परिदेवितम् ।
कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥

यदा तु रामस्य सलक्ष्मणस्य ।
प्रसह्य सीता खलु पा इहाऽहृता ।
सकृत्समीक्षैव सुनिश्चितम् तदा ।
भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥

सर्वमेतन्महाराज कृतमप्रतिमम् तव ।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥

न्यायेन राजकार्याणि यः करोति दशानन ।
न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥

अनुपायेन कर्माणि विपरीतानि यानि च ।
क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥

यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥

चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।
चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥

त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥

तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥

अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥

तावहम् योधयिष्यामि कुबेरवरुणावपि ।
गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥

नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।
पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥

ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।
वधेव वै दाशरथेह् सुखावहम् ।
जयम् तवाहर्तुमहम् तयिष्ये ।
हत्वा च रामम् सह लक्ष्मणेन ।
खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥

रमस्व कामम् पिब चाग्र्यवारुणीम् ।
कुरुष्व कार्वाणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयम् ।
चिराय सीता वशगा भविष्यति ॥६-१२-४०॥

त्रयोदशः सर्गः ॥६-१३॥[सम्पाद्यताम्]

रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।
मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥

यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् ।
न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥

ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥

बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।
अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥

लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् ।
प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥

कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।
प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥

उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् ।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥

इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल ।
वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥

एवमुक्तस्तदा राजा महापार्श्वएन रावणः ।
तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥

महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।
चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥

पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् ।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥

सा प्रसह्य मया भुक्ता कृता विवसना ततः ।
स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥

तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः ।
अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥

अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि ।
तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥

इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् ।
नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥

सागरस्येव मे वेगो मारुतस्येव मे गतिः ।
नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥

को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये ।
क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥

न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव ।
रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥

क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः ।
राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥

तच्चास्य बलमादास्ये बलेन महता वृतः ।
उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥

न वासवेनापि सहस्रचक्षुषा ।
युधास्मि शक्यो वरुणेन वा पुनः ।
मया त्वियम् बाहुबलेन निर्जिता ।
पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥

चतुर्दशः सर्गः ॥६-१४॥[सम्पाद्यताम्]

निशाचरेन्द्रस्य निशम्य वाक्यम् ।
स कुम्भकर्णस्य च गर्जितानि ।
विभीषणो राक्षसराजमुख्य ।
मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥

वृतो हि बाह्वन्तरभोगराशि ।
श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।
सीतामहाहिस्तव केन राजन् ॥६-१४-२॥

यावन्न लङ्का समभिद्रवन्ति ।
वलीमुखाः पर्वतकूटमात्राः ।
दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।
प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥

यावन्न गृह्णन्ति शिराम्सि बाणा ।
रामेरिता राक्षसपुङ्गवानाम् ।
वज्रोपमा वायुसमानवेगाः ।
प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥

न कुम्भकर्णेन्द्रजितौ च राजम् ।
स्तथा महापार्श्वमहोदरौ वा ।
निकुम्भकुम्भौ च तथातिकायः ।
स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥

जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।
गुप्तः सवित्राप्यथवा मरुद्भिः ।
न वासवस्याङ्कगतो न मृत्यो ।
र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥

निशम्य वाक्यम् तु विभीषणस्य ।
ततः प्रहस्तो वचनम् बभाषे ।
न नो भयम् विद्म न दैवतेभ्यो ।
न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥

न यक्षगन्धर्वमहोरगेभ्यो ।
भयम् न सम्ख्ये पतगोरगेभ्यः ।
कथम् नु रामाद्भविता भयम् नो ।
नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥

प्रहस्तवाक्यम् त्वहितम् निशम्य ।
विभीषणो राजहितानुकाङिक्षी ।
ततो महार्थम् वचनम् बभाषे ।
धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥

प्रहस्त राजा च महोदरश्च ।
त्वम् कुम्भकर्णश्च यथार्थजातम् ।
ब्रवीत रामम् प्रति तन्न शक्यम् ।
यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥

वधस्तु रामस्य मया त्वया च ।
प्रहस्त सर्वैरपि राक्षसैर्वा ।
कथम् भवेदर्थविशारदस्य ।
महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥

धर्मप्रधानस्य महारथस्य ।
इक्स्वाकुवम्शप्रभवस्य राज्ञः ।
पुरोऽस्य देवाश्च तथाविधस्य ।
कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥

तीक्षणा न तावत्तव कङ्कपत्रा ।
दुरापदा राघवविप्रमुक्ताः ।
भित्त्वाशरीरम् प्रविशन्ति बाणाः ।
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥

भित्त्वा न तावत्प्रविशन्ति कायम् ।
प्राणान्तकास्तेऽशनितुल्य्वेगाः ।
शिताः शरा राघवविप्रमुक्ताः ।
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥

न रावणो नाइबलस्त्रीशीर्षो ।
न कुम्भकर्णस्य सुतो निकुभः ।
न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।
त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥

देवान्तको वापि नरान्तको वा ।
तथातिकायोऽतिरथो महात्मा ।
अकम्पननश्चाद्रिसमानसारः ।
स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥

अयम् च राजा न्यसनाभिभूतो ।
मित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यते राक्षसनाशनार्थे ।
तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥

अनन्तभोगेन सहस्रमूर्ध्ना ।
वागेन भीमेन महाबलेन ।
बलात्परिक्षिप्तमिमम् भवन्तो ।
राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥

यावद्धि केशग्रहणात्सुहृद्भिः ।
समेत्य सर्वैः परिपूर्णकामैः ।
निगृह्य राजा परिरक्षितव्यो ।
भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥

सुवारिणा राघवसागरेण ।
प्रच्चाद्यमानस्तरसा भवद्भिः ।
प्रच्चाद्यमानस्तरसा भवद्भिः ।
युक्तस्त्वयम् तारयितुम् समेत्य ।
काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥

इदम् पुरस्यास्य सराक्षसस्य ।
राज्ञश्च पथ्यम् ससुहृज्जनस्य ।
सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।
नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥

परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।
स्थानम् क्षयम् चैव तथैव वृद्धिम् ।
तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।
वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥

पञ्चदशः सर्गः ॥६-१५॥[सम्पाद्यताम्]

बृहस्पतेस्तुल्यमतेर्वचस्त ।
न्निशम्य यत्नेन विभीषणस्य ।
ततो महात्मा वचनम् बभाषे ।
तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥

किम् नाम ते तात कनिष्ठ वाक्य ।
मन्र्थकम् वै बहुभीतवच्च ।
अस्मिन् कुले योऽपि  भवेन्न जातः ।
सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥

सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च ।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो ।
विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥

किम् नाम तौ मानुषराजपुत्रा ।
वस्माकमेकेन हि राक्षसेन ।
सुप्राकृतेनापि निहन्तुमेतौ ।
शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥

त्रिलोकनाथो नम देवराजः ।
शक्तो मया भूमितले विविष्टः ।
भयार्मिताश्चापि दिशः प्रपन्नाः ।
सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥

ऐरावतो विस्वरमुन्नदन् स ।
निपातितो भूमितले मया तु ।
विकृष्य दन्तौ तु मया प्रपह्य ।
वित्रासिता देवगणाः समग्राः ॥६-१५-६॥

सोऽहम् सुराणामपि दर्पहन्ता ।
दैत्योत्तमानामपि शोककर्ता ।
कथम् नरेन्द्रत्मजयोर्न शक्तो ।
ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥

अथेन्द्रकल्पस्य दुरासदस्य ।
महाजसस्तद्वचनम् निशम्य ।
ततो महार्थम् वचनम् बभाषे ।
विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥

न तात मन्त्रे तव निश्चयोऽस्ति ।
बालस्त्वमद्याप्यविपक्वबुद्धिः ।
तस्मात्त्वयाप्यात्मविनाशनाय ।
वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥

पुत्रप्रवादेन तु रावणस्य ।
त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।
यस्येदृशम् राघवतो विनाशम् ।
विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥

त्वमेव वध्यश्च सुदुर्मतिश्च ।
स चापि वध्यो य ऐहानयत्त्वाम् ।
बालम् दृढम् साहासिकम् च योऽद्य ।
प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥

मूढोऽप्रगल्भोऽविनयोपपन्न ।
स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।
मूर्खस्त्वमत्यन्तसुदुर्मतिश्च ।
त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥

को ब्रह्मदण्डप्रतिमप्रकाशा ।
नर्चिष्मतः कालनिकाशरूपान् ।
सहेत बाणान्यमदण्डकल्पा ।
न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥

धनानि रत्नानि सुभूषणानि ।
वापाम्पि दिव्यानि मणीम्श्च चित्रान् ।
सीताम् च रामाय निवेद्य देवीम् ।
वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥

षोडशः सर्गः ॥६-१६॥[सम्पाद्यताम्]

सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥

वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।
न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥

जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥

प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।
ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥

नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥

श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।
पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥

नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः  ॥६-१६-७॥

उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥

विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥

ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।
ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥

यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥

यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥

यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।
तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥

यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।
रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥

यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥

योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।
अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥

इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥

अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥

स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥

इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।
सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥

न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥

न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।
दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥

न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।
शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥

काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥

आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।
स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥

निवार्यमाणस्य मया हित एषिणा ।
न रोचते ते वचनम् निशा चर ।
परीत काला हि गत आयुषो नरा ।
हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥

सप्तदशः सर्गः ॥६-१७॥[सम्पाद्यताम्]

इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः ।
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥

तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् ।
गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥

ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।
तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥

स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।
वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥

तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः ।
वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥

चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह ।
हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥

एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः ।
राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।
सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥

शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् ।
निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥

तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः ।
उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥

स उवाच च महाप्राज्ञः स्वरेण महता महान् ।
सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥

रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।
तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥

तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् ।
रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥

तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् ।
साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥

स च न प्रतिजग्राह रावणः काल चोदितः ।
उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥

सो अहम् परुषितस् तेन दासवच् च अवमानितः ।
त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥

निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने ।
सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥

एतत्तु वचनम् श्रुत्वा सुग्रीवो लघु विक्रमः ।
लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥

प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः ।
निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥

मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।
वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥

अन्तर्धनगताह्येते राक्षसाः कामरूपिणः ।
शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥

प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।
अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥

अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् ।
अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥६-१७-२३॥

मित्राटवीबलम् चैव मौलभृत्यबलम् तथा ।
सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥

प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।
आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥

रावणस्य अनुजो भ्राता विभीषण इति श्रुतः ।
चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥

रावणेन प्रणिहितम् तम् अवेहि विभीषणम् ।
तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥

राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः ।
प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥

बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह ।
रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥

एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः ।
वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥

सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः ।
समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥

यद् उक्तम् कपि राजेन रावण अवरजम् प्रति ।
वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥

सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता ।
समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥

इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः ।
स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥

अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव ।
आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥

त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः ।
परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३६॥

तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव ।
हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥

इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः ।
विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥

शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि ।
विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥

चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः ।
प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥

अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह ।
गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥

यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् ।
गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥

शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् ।
क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥

प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना ।
परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥

जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः ।
वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥

बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः ।
अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥

ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः ।
वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥

अनुहो नाम तस्य एष रावणस्य विभीषणः ।
पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥

भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि ।
यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥

अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः ।
उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥

न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् ।
अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥

न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः ।
वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥

अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव ।
तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥

ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते ।
सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥

चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव ।
अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥

अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः ।
विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥

स एष देशः कालः च भवति इह यथा तथा ।
पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥

दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि ।
युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥

अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति ।
यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥

पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः ।
तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥

अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै ।
अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥

न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्ट भावता ।
प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥

अशन्कित मतिः स्वस्थो न शठः परिसर्पति ।
न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥

आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् ।
बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥

देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर ।
सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥

उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् ।
वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥

राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः ।
एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥

यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति ।
प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥

अष्टादशः सर्गः ॥६-१८॥[सम्पाद्यताम्]

अथ रामः प्रसन्न आत्मा श्रुत्वा वायु सुतस्य ह ।
प्रत्यभाषत दुर्धर्षः श्रुतवान् आत्मनि स्थितम् ॥६-१८-१॥

मम अपि तु विवक्षा अस्ति काचित् प्रति विभीषणम् ।
श्रुतम् इच्चामि तत् सर्वम् भवद्भिः श्रेयसि स्थितैः ॥६-१८-२॥

मित्र भावेन सम्प्राप्तम् न त्यजेयम् कथम्चन ।
दोषो यदि अपि तस्य स्यात् सताम् एतद् अगर्हितम् ॥६-१८-३॥

सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ।
ततः शुभतरम् वाक्यमुवाच हरिपुङ्गवः ॥६-१८-४॥

सुदुष्टो वाप्यदुष्टो वा किम्मेष रजनीचरः ।
ईदृशम् व्यसनम् प्राप्तम् भ्रातरम् यः परित्यजेत् ॥६-१८-५॥

को वाम स भवेत्तस्य यमेष न परित्यजेत् ।
वानराधिपते र्वाक्यम् श्रुत्वा सर्वानुदीक्स्य तु ॥६-१८-६॥

ईषदुत्स्मयमानस्तु लक्स्मणम् पुण्यलक्षणम् ।
इति होवाच काकुत्थ्सो वाक्यम् सत्यपराक्रमः ॥६-१८-७॥

अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ।
न शक्यमीदृशम् वक्तुम् यदुवाच हरीश्वरः ॥६-१८-८॥

अस्ति सूक्ष्मतरम् किम्चिद्यदत्र प्रतिभाति मा ।
प्रत्यक्षम् लौकिकम् चापि वर्तते सर्वराजसु ॥६-१८-९॥

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिता ।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥६-१८-१०॥

अपापास्तत्कुलीवाश्च मानयन्ति स्वकान् हितान् ।
एष प्रायो नरेन्द्राणाम् शङ्कनीयस्तु शोभनः ॥६-१८-११॥

यस्तु दोषस्त्वया प्रोक्तो ह्यादानेरिबलस्य च ।
तत्र ते कीर्तयुष्यामि यथाशास्त्रमिदम् शृणु ॥६-१८-१२॥

न वयम् तत्कुलीनाश्च राज्यकाम्क्षी च राक्षसः ।
पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥६-१८-१३॥

अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सम्गताः ।
प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥६-१८-१४॥

इति भेदम् गमिष्यन्ति तस्मात्प्रोप्तो विभीषणः ।
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥६-१८-१५॥

मद्विधा ना पितुः पुत्राः सुहृदो वा भवद्विधाः ।
एवमुक्तस्तु रामेण सुग्रीवः सहलक्स्मणः ॥६-१८-१६॥

उत्थाअयोदम् महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ।
रावणेन प्रणिहितम् तमवेहि निशाचरम् ॥६-१८-१७॥

तस्याहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ।
राक्षसो जिह्मया बुद्ध्या सम्दिष्टोऽय मिहागतः ॥६-१८-१८॥

प्रहर्तुम् त्वयि विश्वस्ते विश्वस्ते मयि वानघ ।
लक्ष्मणे वा महाबाहो स बध्यः सचिवैः सह ॥६-१८-१९॥

रावणस्य नृशम्सस्य भ्राता ह्येष विभीषणः ।
स सुग्रीवस्य तद् वाक्यय्म् रामः श्रुत्वा विमृश्य च ॥६-१८-२०॥

ततः शुभतरम् वाक्यम् उवाच हरि पुम्गवम् ।
सुदुष्टो वा अपि अदुष्टो वा किम् एष रजनी चरः ॥६-१८-२१॥

सूक्ष्मम् अपि अहितम् कर्तुम् मम अशक्तः कथम्चन ।
पिशाचान् दानवान् यक्षान् पृथिव्याम् चैव राक्षसान् ॥६-१८-२२॥

अन्गुलि अग्रेण तान् हन्याम् इच्चन् हरि गण ईश्वर ।
श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ॥६-१८-२३॥

अर्चितः च यथा न्यायम् स्वैः च माम्सैर् निमन्त्रितः ।
स हि तम् प्रतिजग्राह भार्या हर्तारम् आगतम् ॥६-१८-२४॥

कपोतो वानर श्रेष्ठ किम् पुनर् मद् विधो जनः ।
ऋषेः कण्वस्य पुत्रेण कण्डुना परम ऋषिणा ॥६-१८-२५॥

शृणु गाथाम् पुरा गीताम् धर्मिष्ठाम् सत्य वादिना ।
बद्ध अन्जलि पुटम् दीनम् याचन्तम् शरण आगतम् ॥६-१८-२६॥

न हन्याद् आनृशम्स्य अर्थम् अपि शत्रुम् परम् पत ।
अर्तो वा यदि वा दृप्तः परेषाम् शरणम् गतः ॥६-१८-२७॥

अरिः प्राणान् परित्यज्य रक्षितव्यः कृत आत्मना ।
स चेद् भयाद् वा मोहाद् वा कामाद् वा अपि न रक्षति ॥६-१८-२८॥

स्वया शक्त्या यथा तत्त्वम् तत् पापम् लोक गर्हितम् ।
विनष्टः पश्यतस् तस्य रक्षिणः शरण आगतः ॥६-१८-२९॥

आदाय सुकृतम् तस्य सर्वम् गच्चेद् अरक्षितः ।
एवम् दोषो महान् अत्र प्रपन्नानाम् अरक्षणे ॥६-१८-३०॥

करिष्यामि यथा अर्थम् तु कण्डोर् वचनम् उत्तमम् ॥६-१८-३१॥

धर्मिष्ठम् च यशस्यम् च स्वर्ग्यम् स्यात् तु फल उदये ।
सकृद् एव प्रपन्नाय तव अस्मि इति च याचते ॥६-१८-३२॥

अभयम् सर्व भूतेभ्यो ददामि एतद् व्रतम् मम ।
आनय एनम् हरि श्रेष्ठ दत्तम् अस्य अभयम् मया ॥६-१८-३३॥

विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ।
रामस्य वचनम् श्रुत्वा सुग्रीवः प्लवग ईश्वरः ॥६-१८-३४॥

प्रत्यभाषत काकुत्स्थम् सौहार्देन अभिचोदितः ।
किम् अत्र चित्रम् धर्मज्ञ लोक नाथ शिखा मणे ॥६-१८-३५॥

यत् त्वम् आर्यम् प्रभाषेथाः सत्त्ववान् सपथे स्थितः ।
मम च अपि अन्तर् आत्मा अयम् शुद्धिम् वेत्ति विभीषणम् ॥६-१८-३६॥

अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः ।
तस्मात् क्षिप्रम् सह अस्माभिस् तुल्यो भवतु राघव ॥६-१८-३७॥

विभीषणो महाप्राज्ञः सखित्वम् च अभ्युपैतु नः ।
ततस् तु सुग्रीव वचो निशम्यत।
हरि ईश्वरेण अभिहितम् नर ईश्वरः ।
विभीषणेन आशु जगाम सम्गमम् ।
पतत्रि राजेन यथा पुरम् दरः ॥६-१८-३८॥

एकोनविंशः सर्गः ॥६-१९॥[सम्पाद्यताम्]

राघवेन अभये दत्ते सम्नतो रावण अनुजः ।
विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥

खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।
स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥

पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।
अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥

धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।
अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥

भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।
परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥

भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।
तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥

वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।
आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥

एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥

अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।
राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥

रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥

राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥

बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥

सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥

महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।
अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥

दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।
माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥

स तैस्तु सहितो राजा लोकपालानयोधयत् ।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥

विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।
अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥

यानि कर्मापदानानि रावणस्य विभीषण ।
अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥

अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।
राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥

रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।
पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥

अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।
अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥

श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।
शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥

राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।
करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥

इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।
अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥

तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।
राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥

एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।
मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥

तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।
प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥

अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।
कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥

सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।
उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥

तराम तरसा सर्वे ससैन्या वरुण आलयम् ।
एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥

समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।
खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥

कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥

आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥

सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।
प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥

स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।
सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥

विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।
सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥

उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।
एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥

समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।
किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥

विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।
अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥

लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।
विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥

अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।
यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥

एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।
सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥

विंशः सर्गः ॥६-२०॥[सम्पाद्यताम्]

ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥

चारो राक्षसराजस्य रावणस्य दुरात्मनः ।
ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥

आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।
एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥

अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥

उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।
एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥

बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।
तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥

तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।
उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥

शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥

शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।
सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥

यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।
त्वम् वै महारज कुलप्रसूतो ।
महाबलश्चर्क्षरजःसुतश्च ।
न कश्चनार्थस्तव वास्त्यनर्थ ।
स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥

अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।
किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥

न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।
देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥

स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।
शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥

स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।
सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥

सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।
तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥

प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।
सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥

गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥

न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।
यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥

अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।
शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥

उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।
स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥

अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥

किम् मया खलु नक्तव्यो रावणो लोकरावणः ।
स एवमुक्तः प्लवगाधिपस्तदा ।
प्लवङ्गमानामृषभो महाबलः ।
उवाच वाक्यम् रजनीचरस्य ।
चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥

स मेऽसि मित्रम् व तथानुकम्प्यो ।
न चोपकर्तासि न मे प्रियोऽपि ।
अरिश्च रामस्य सहानुबन्ध ।
स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥

निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।
सज्ञातिवर्गम् रजनीचरेश ।
लङ्काम् च सर्वाम् महता बलेन ।
सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥

न मोक्ष्यसे रावण राघवस्य ।
सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।
अन्तर्हतः सूर्यपथम् गतोऽपि।
तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥

गिरीशपादम्बुजसम्गतो वा ।
हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥

तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।
त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥

अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।
किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥

हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।
महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥

न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।
ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥

वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।
तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥

गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥

जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।
शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥

व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।
लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥

याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।
एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥

सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥
वानरानब्रवीद्रामो मुच्यताम् दूत आगतः ।

एकविंशः सर्गः ॥६-२१॥[सम्पाद्यताम्]

ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।
अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥

बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः  ॥६-२१-२॥

भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥

चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥

बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।
शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥

तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।
सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥

सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।
अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।
दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥

गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।
अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥

इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।
अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥

तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।
नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥

स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥

न च दर्शयते मन्दस् तदा रामस्य सागरः ।
प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥

समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।
समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥

अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।
प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥

असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।
आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥

सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।
न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥

प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।
अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।
निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥

भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥

महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।
सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥

अद्य युद्धेन महता समुद्रम् परिशोषये ।
क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥

असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।
स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥

चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।
समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥

अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।
वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥

निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।
महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥

एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।
बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥

सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।
मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥

ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।
प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥

ततो वेगः समुद्रस्य सनक्र मकरो महान् ।
स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥

महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।
सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥

व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।
दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥

ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।
विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥

आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।
उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥

ततस्तु तम् राघव मुग्रवेगम् ।
प्रकर्षमाणम् ध्मरप्रमेयम् ।
सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।
मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥

एतद्विनापि ह्युदधेस्तवार्य ।
सम्पत्स्यते वीरतमस्य कार्यम् ।
भवद्विधाः क्रोधवशम् न यान्ति ।
दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥

अन्तर्हितैश्चापि तथान्तरिक्षे ।
ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।
शब्दः कृतः कष्टमिति ब्रुवद्भि ।
र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥

द्वाविंशः सर्गः ॥६-२२॥[सम्पाद्यताम्]

अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।
अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥

शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।
मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥

मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।
परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥

विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।
दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥

ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।
सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥

तस्मिन्विकृष्टे सहसा राघवेण शरासने ।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥

तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।
प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥

तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।
भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥

प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।
अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥

वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः ।
बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥

आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।
दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥

मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥

अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।
शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥

सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।
सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥

सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।
योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥

तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।
समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥

ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।
उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥

पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।
स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥

रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।
सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥

जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः ।
आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥

धातुभिर्मण्डितः शैलो विविधैर्हमवानिव ।
एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।
आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥

गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।
देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥

सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।
अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥

पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।
स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥

तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः ।
विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥

न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।
रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥

विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥

हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।
तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥

अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।
रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥

महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।
उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥

द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥

आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।
तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥

अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।
तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥

मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।
तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥

विपातितः शरो यत्र वज्राशनिसमप्रभः ।
ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥

तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।
स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥

सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।
अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥

तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् ।
विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥

शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।
वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥

पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।
बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥

एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।
रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥

तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।
राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥

अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।
पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥

एष सेतुम् महाउत्साहः करोतु मयि वानरः ।
तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥

एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।
अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥

अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।
पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥

असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।
ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥

मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।
औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥

औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा।
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥

न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।
समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥

तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।
ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥

अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।
ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥

बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।
ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥

कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥

चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।
समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥

इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।
तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥

करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः ।
हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥

पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।
प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥

समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।
समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥

सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।
नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥

स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।
दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥

वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः ।
मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥

पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।
पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥

दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।
शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥

बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥

प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः ।
द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥

कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।
अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥

त्वरमाणैर्महाकयैरेकविम्शतिरेव च ।
चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥

योजनानि महावेगैः कृतानि त्वरितैस्ततः ।
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥

योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै ।
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥

बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।
स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥

शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।
ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥

आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।
दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥

ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥

तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।
ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥

तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।
बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥

विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।
अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥

ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।
परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥

सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।
हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥

अयम् हि विपुलो वीर सागरो मकरालयः ।
वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥

अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।
जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥

अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।
सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥

केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।
घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥

भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।
वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥

तीरे निविविशे राज्ञा बहु मूल फल उदके ।
तद् अद्भुतम् राघव कर्म दुष्करम् ।
समीक्ष्य देवाः सह सिद्ध चारणैः ।
उपेत्य रामम् सहिता महर्षिभिः ।
समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥

जयस्व शत्रून् नर देव मेदिनीम् ।
ससागराम् पालय शाश्वतीः समाः ।
इति इव रामम् नर देव सत्कृतम् ।
शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥

त्रयोविंशः सर्गः ॥६-२३॥[सम्पाद्यताम्]

निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।
सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥

परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।
बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥

लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।
प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥

वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥

मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥

रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥

दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।
प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥

रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।
कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।
आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥

रजसा महता चापि नक्षत्राणि हतानि च ।
युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥

काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।
शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥

शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।
भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥

क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।
अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥

इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥

सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।
प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥

राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।
हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥

चतुर्विंशः सर्गः ॥६-२४॥[सम्पाद्यताम्]

सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥

प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।
पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥

ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।
भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥

बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।
अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥

राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।
वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥

दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।
जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥

अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥

दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।
उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥

आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।
मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥

विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।
विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥

पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।
नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥

पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।
कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥

इति दाशरथीरमो लक्ष्मणम् समभाषत ।
बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥

शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।
अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥

तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।
आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥

मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।
जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥

ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।
जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥

पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।
सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥

अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।
प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥

आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।
शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥

इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।
ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥

सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥

मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।
मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥

शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।
रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥

किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।
कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥

ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।
वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥

सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।
यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥

क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।
गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥

न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।
प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥

स च हन्ता विराधस्य कबन्धस्य खरस्य च ।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥

स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।
एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥

ऋक्षवानरसम्घानामनीकानि सहस्रशः ।
गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥

राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।
नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥

पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।
सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥

शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।
रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥

यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।
नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥

कदा समभिधानन्ति मामका राघवम् शराः ।
वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥

कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।
शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥

तच्चास्य बलमादास्ये बलेन महता वृतः ।
ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥

सागरस्येव मे वेगो मारुतस्येव मे बलम् ।
न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥

न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।
रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥

न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।
मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥

ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।
नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥

अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।
न वासवेनापि स हस्रचक्षुषा ।
युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।
यमेव वा धर्षयितुम् शराग्निना ।
महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥

पञ्चविंशः सर्गः ॥६-२५॥[सम्पाद्यताम्]

सबले सागरम् तीर्णे रामे दशरथ आत्मजे ।
अमात्यौ रावणः श्रीमान् अब्रवीत् शुक सारणौ ॥६-२५-१॥

समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् ।
अभूत पूर्वम् रामेण सागरे सेतु बन्धनम् ॥६-२५-२॥

सागरे सेतु बन्धम् तु न श्रद्दध्याम् कथम्चन ।
अवश्यम् च अपि सम्ख्येयम् तन् मया वानरम् बलम् ॥६-२५-३॥

भवन्तौ वानरम् सैन्यम् प्रविश्य अनुपलक्षितौ ।
परिमाणम् च वीर्यम् च ये च मुख्याः प्लवम् गमाः ॥६-२५-४॥

मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः ।
ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवम् गमाः ॥६-२५-५॥

स च सेतुर् यथा बद्धः सागरे सलिल अर्णवे ।
निवेशः च यथा तेषाम् वानराणाम् महात्मनाम् ॥६-२५-६॥

रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च ।
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ ॥६-२५-७॥

कः च सेना पतिस् तेषाम् वानराणाम् महाओजसाम् ।
एतज् ज्ञात्वा यथा तत्त्वम् शीघ्रम् अगन्तुम् अर्हथः ॥६-२५-८॥

इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ।
हरि रूप धरौ वीरौ प्रविष्टौ वानरम् बलम् ॥६-२५-९॥

ततस् तद् वानरम् सैन्यम् अचिन्त्यम् लोम हर्षणम् ।
सम्ख्यातुम् न अध्यगच्चेताम् तदा तौ शुक सारणौ ॥६-२५-१०॥

तत् स्थितम् पर्वत अग्रेषु निर्दरेषु गुहासु च ।
समुद्रस्य च तीरेषु वनेषु उपवनेषु च ॥६-२५-११॥

तरमाणम् च तीर्णम् च तर्तु कामम् च सर्वशः ।
निविष्टम् निविशच् चैव भीम नादम् महाबलम् ॥६-२५-१२॥

तद्बलार्णवमक्षोभ्यम् ददृशाते निशाचरौ ।
तौ ददर्श महातेजाः प्रच्चन्नौ च विभीषणः ॥६-२५-१३॥

आचचक्षे अथ रामाय गृहीत्वा शुक सारणौ ।
तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुक्सारणौ ॥६-२५-१४॥

लंकायाः समनुप्राप्तौ चारौ पर पुरम् जयौ ।
तौ दृष्ट्वा व्यथितौ रामम् निराशौ जीविते तदा ॥६-२५-१५॥

कृत अन्जलि पुटौ भीतौ वचनम् च इदम् ऊचतुः ।
आवाम् इह आगतौ सौम्य रावण प्रहिताव् उभौ ॥६-२५-१६॥

परिज्ञातुम् बलम् कृत्स्नम् तव इदम् रघु नन्दन ।
तयोस् तद् वचनम् श्रुत्वा रामो दशरथ आत्मजः ॥६-२५-१७॥

अब्रवीत् प्रहसन् वाक्यम् सर्व भूत हिते रतः ।
यदि दृष्टम् बलम् कृत्स्नम् वयम् वा सुसमीक्षिताः ॥६-२५-१८॥

यथा उक्तम् वा कृतम् कार्यम् चन्दतः प्रतिगम्यताम् ।
अथ किम्चिददृष्टम् वा भूयस्तद्द्रष्टुमर्हथः ॥६-२५-१९॥

विभीषनो वा कार्त्स्न्येन पुनः सम्दर्शयिष्यति ।
न चेदम् ग्रहम् णम् प्रप्य भेतव्यम् जीवितम् प्रति ॥६-२५-२०॥

व्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हतः ।
प्रच्चन्नौ च विमुञ्चएमौ चारौ रात्रिम्च रावुभौ ॥६-२५-२१॥

शत्रुपक्षस्य सततम् विभीषण विकर्षिणौ ।
प्रविश्य नगरीम् लंकाम् भवद्भ्याम् धनद अनुजः ॥६-२५-२२॥

वक्तव्यो रक्षसाम् राजा यथा उक्तम् वचनम् मम ।
यद् बलम् च समाश्रित्य सीताम् मे हृतवान् असि ॥६-२५-२३॥

तद् दर्शय यथा कामम् ससैन्यः सह बान्धवः ।
श्वः काले नगरीम् लंकाम् सप्राकाराम् सतोरणाम् ॥६-२५-२४॥

राक्षसम् च बलम् पश्य शरैर् विध्वम्सितम् मया ।
खोधम् भीममहम् मोक्ष्ये बलम् धारय रावण ॥६-२५-२५॥

श्वः काले वज्रवान् वज्रम् दानवेष्व् इव वासवः ।
इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ॥६-२५-२६॥

जयेति प्रतिनन्द्यैनम् राघवम् धर्मवत्सलम् ।
आगम्य नगरीम् लंकाम् अब्रूताम् राक्षस अधिपम् ॥६-२५-२७॥

विभीषण गृहीतौ तु वध अर्हौ राक्षस ईश्वर ।
दृष्ट्वा धर्म आत्मना मुक्तौ रामेण अमित तेजसा ॥६-२५-२८॥

एक स्थान गता यत्र चत्वारः पुरुष ऋषभाः ।
लोक पाल उपमाः शूराः कृत अस्त्रा दृढ विक्रमाः ॥६-२५-२९॥

रामो दाशरथिः श्रीमाम्ल् लक्ष्मणः च विभीषणः ।
सुग्रीवः च महातेजा महाइन्द्र सम विक्रमः ॥६-२५-३०॥

एते शक्ताः पुरीम् लंकाम् सप्राकाराम् सतोरणाम् ।
उत्पाट्य सम्क्रामयितुम् सर्वे तिष्ठन्तु वानराः ॥६-२५-३१॥

यादृशम् तस्य रामस्य रूपम् प्रहरणानि च ।
वधिष्यति पुरीम् लंकाम् एकस् तिष्ठन्तु ते त्रयः ॥६-२५-३२॥

राम लक्ष्मण गुप्ता सा सुग्रीवेण च वाहिनी ।
बभूव दुर्धर्षतरा सर्वैर् अपि सुर असुरैः ॥६-२५-३३॥

प्रहृष्ट रूपा ध्वजिनी वन ओकसाम् ।
वनौकसाम् सम्प्रति योद्धुम् इच्चताम् ।
अलम् विरोधेन शमो विधीयताम् ।
प्रदीयताम् दाशरथाय मैथिली ॥६-२५-३४॥

षड्विंशः सर्गः ॥६-२६॥[सम्पाद्यताम्]

तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥

यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥

त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।
प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥

को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।
इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥

आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।
बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥

ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।
पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥

ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।
तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥

आलोक्य रावणो राजा परिपप्रच्च सारणम् ।
एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥

के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।
केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥

सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।
सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥

आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।
एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥

यूथपानाम् सहस्राणाम् शतेन परिवारितः ।
यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥

लंका प्रवेपते सर्वा सशैल वन कानना ।
सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥

बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।
बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥

लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।
गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥

स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।
यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥

एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।
यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥

वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥

एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।
हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।
परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥

अनुवालिसुतस्यापि बलेन महता वृतः ।
वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।
उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥

एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।
अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥

य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥

श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥

तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥

यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।
नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥

तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।
यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥

यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥

अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥

यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।
निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥

विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।
राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥

शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।
यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥

परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।
यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥

न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥

पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।
महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥

राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥

राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।
यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥

मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।
भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥

घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥

युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।
एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥

यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।
यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥

स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।
एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥

पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।
षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥

त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥

यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।
अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥

गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।
एनम् शत सहस्राणि सप्ततिः पर्युपासते ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥

एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।
यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥

सप्तविंशः सर्गः ॥६-२७॥[सम्पाद्यताम्]

ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥

स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥

प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।
पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥

यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।
वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥

यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।
नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥

असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।
असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥

पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥

एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥

ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।
सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥

यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥

स एष जाम्बवान् नाम महायूथप यूथपः ।
प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥

एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।
देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥

आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।
मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥

राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।
एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥

यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।
प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥

एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।
बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥

यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।
ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥

यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।
श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥

येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।
पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥

यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।
एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥

तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥

यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।
विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥

तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।
युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥

वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।
एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥

यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।
हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥

एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।
गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥

हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।
उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥

रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥

वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।
स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥

स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।
वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥

अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।
उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥

विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।
एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥

शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।
गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥

परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।
भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥

यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।
यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥

यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।
सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥

मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।
तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥

मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।
षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥

तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।
तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥

निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।
सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥

सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।
सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥

महापर्वत सम्काशा महाजीमूत निस्वनाः ।
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥

मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।
नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥

एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥

रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।
गजो गव अक्षो गवयो नलो नीलः च वानरः ।
एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥

तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।
न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥

सर्वे महाराज महाप्रभावाः ।
सर्वे महाशैल निकाश कायाः ।
सर्वे समर्थाः पृथिवीम् क्षणेन ।
कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥

अष्टाविंशः सर्गः ॥६-२८॥[सम्पाद्यताम्]

सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।
बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥

स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।
न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥

एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।
दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥

एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।
तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥

एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।
हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।
मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥

ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।
आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥

यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥

एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।
एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥

ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।
हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥

काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।
अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥

उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।
त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥

आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।
इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥

अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।
अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥

पतितस्य कपेर् अस्य हनुर् एका शिला तले ।
किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥

सत्यम् आगम योगेन मम एष विदितो हरिः ।
न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥

एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।
येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥

लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।
यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥

इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।
यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥

यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।
यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥

यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।
यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥

स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।
यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥

विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।
एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥

नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥

रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥

एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।
यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥

रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।
श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥

त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥

सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥

यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।
किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥

दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।
यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥

कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।
एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥

सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।
शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥

शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।
शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥

महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।
शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥

महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।
शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥

महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।
शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥

महाखर्वसहस्राणाम् समुद्रमभिधीयते ।
शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥

शतमोघसहस्राणाम् महौघ इति विश्रुतः ।
एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥

महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।
महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥

महापद्मसहस्रेण तथा खर्वशतेन च ।
समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥

एष कोटिमहौघेन समुद्रसदृशेन च ।
विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥

सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।
महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥

इमाम् महाराज समीक्ष्य वाहिनीम् ।
उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।
ततः प्रयत्नः परमो विधीयताम् ।
यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥

एकोनत्रिंशः सर्गः ॥६-२९॥[सम्पाद्यताम्]

शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।
लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥

समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।
सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥

अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।
हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥

सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।
गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥

किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।
भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥

अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।
रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥

न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।
विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥

रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।
उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥

आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।
सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥

गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।
ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥

किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।
यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥

अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥

हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।
यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥

अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।
न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥

हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।
एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥

रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।
अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥

उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।
महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥

ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।
उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥

तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥

चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।
इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥

मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।
कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥

विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।
चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥

युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।
चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥

शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।
ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥

कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।
ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥

प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।
प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥

ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।
विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥

शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।
मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥

अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।
वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥

पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।
ततो दशग्रीवम् उपस्थितास् ते ।
चारा बहिर् नित्य चरा निशा चराः ।
गिरेः सुवेलस्य समीप वासिनम् ।
न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥

त्रिंशः सर्गः ॥६-३०॥[सम्पाद्यताम्]

ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।
सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥

चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥

अयथावच् च ते वर्णो दीनः च असि निशा चर ।
न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥

इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।
तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥

न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।
विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥

न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।
सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥

प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।
बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥

जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।
परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥

परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।
रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥

हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।
राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥

एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।
द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥

गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।
माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥

पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।
सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥

मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।
शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥

यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥

एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।
चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥

कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।
कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥

तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।
अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥

अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।
इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥

अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।
गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥

गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।
कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥

सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥

सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।
मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥

पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।
अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥

नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।
मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥

पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।
गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥

दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।
श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥

पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।
दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥

नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥

वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।
जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥

लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।
यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥

श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।
वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥

विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।
विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥

राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।
परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥

इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।
सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥

एकत्रिंशः सर्गः ॥६-३१॥[सम्पाद्यताम्]

ततस्तमक्षोभ्यबलम् लङ्कायां नृपतेश्चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥

चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥६-३१-२॥

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः ।
अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥६-३१-३॥

तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ।
ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥

मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् ।
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥

ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् ।
मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६-३१-६॥

विद्युज्जिह्वम् च मायाज्ञ्मब्रवीद्राक्षसाधिपः ।
मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥६-३१-७॥

शिरो मायामयम् गृह्य राघवस्य विशाचर ।
मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥६-३१-८॥

एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः ।
दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥६-३१-९॥

तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।
अशोकवनिकायाम् च सीतादर्शनलालसः ॥६-३१-१०॥

नैरृतानामधिपतिः सम्विवेश महाबलः ।
ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥६-३१-११॥

अधोमुखीं शोकपरामुपविष्टाम् महीतले ।
भर्तारमेव ध्यायन्तीमशोकवनिकाम् गताम् ॥६-३१-१२॥

उपास्यमानाम् घोराभी राक्षसीभिरदूरतः ।
उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥

इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् ।
सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥

खरहन्ता स ते भर्ता राघवः समरे हतः ।
चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥६-३१-१५॥

व्यसनेनात्मनः सीते मम भार्या भविष्यसि ।
विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥

भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥६-३१-१७॥

सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा ।
समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥६-३१-१८॥

वानरेन्द्रप्रणीतेन बलेव महता वृतः ।
सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥६-३१-१९॥

बलेन महता रामो व्रजत्यस्तम् दिवाकरे ।
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥६-३१-२०॥

सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः ।
तत्प्रहस्तप्रणीतेन बलेन महता मम ॥६-३१-२१॥

बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः ।
पट्टिशान् परिघांश्चक्रानृष्टीर्दण्डान्महायुधान् ॥६-३१-२२॥

बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ।
यष्टीश्च तोमरान् प्रासाम्श्चक्राणि मुसलानि च ॥६-३१-२३॥

उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ।
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥६-३१-२४॥

असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना ।
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥६-३१-२५॥

दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ।
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥६-३१-२६॥

निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः ।
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥६-३१-२७॥

पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा ।
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥६-३१-२८॥

निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ ।
असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥६-३१-२९॥

अनुष्वनति मेदिन्याम् पनसः यथा ॥६-३१-३०॥

वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः ।
कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३१॥

अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः ।
परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥६-३१-३२॥

हरयो मथिता वागैरथ जालैस्तथापरे ।
शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥६-३१-३३॥

प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः ।
अनुद्रुतास्तु रक्षोBहिः सिम्हैरिव महाद्विपाः ॥६-३१-३४॥

सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।
ऋक्षा वृक्षामपारूढा वानरैर्व्यतिमिश्रिताः ॥६-३१-३५॥

सागरस्य च तीरेषु शैलेषु च वनेषु च ।
पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥६-३१-३६॥

एवम् तव हतो भर्ता ससैन्यो मम सेवया ।
क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥६-३१-३७॥

ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।
सीतायामुपशृण्वत्यां राक्षसीमिद मब्रवीत् ॥६-३१-३८॥

राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय ।
येन तद्रघनशिरः सङ्ग्रमात्स्वयमाहृतम् ॥६-३१-३९॥

विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् ।
प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-४०॥

तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् ।
विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥६-३१-४१॥

अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः ।
अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४२॥

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥६-३१-४३॥

रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् ।
त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥६-३१-४४॥

इदम् तत्तव रामस्य कार्मुकं ज्यासमाव्R६इतम् ।
इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥६-३१-४५॥

स विद्युजिह्वेन सहैव तच्छिरो ।
धमश्च भूमौ विनिकीर्य रावणः ।
विदेहराजस्य सुताम् यशस्विनीं ।
ततोऽब्रवीत्ताम् भव मे वशामुगा ॥६-३१-४६॥

द्वात्रिंशः सर्गः ॥६-३२॥[सम्पाद्यताम्]

सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् | |
सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता || ६-३२-१
नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् |
केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् || ६-३२-२
एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता |
विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा || ६-३२-३

सकामा भव कैकेयि हतो अयम् कुल नन्दनः |
कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया || ६-३२-४

आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् |
यन्मया चीर वसनस् तया प्रस्थापितो वनम् || ६-३२-५

एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी |
जगाम जगतीम् बाला चिन्ना तु कदली यथा || ६-३२-६

सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् |
तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा || ६-३२-७

हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता |
इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता || ६-३२-८

प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते |
सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः || ६-३२-९

दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे |
यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः || ६-३२-१०

सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव |
वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता || ६-३२-११

उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम |
अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव || ६-३२-१२

अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव |
पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् || ६-३२-१३

अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् |
व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने || ६-३२-१४

तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया |
काल रात्र्या मया आच्चिद्य हृतः कमल लोचन || ६-३२-१५

उपशेषे महा बाहो माम् विहाय तपस्विनीम् |
प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ || ६-३२-१६

अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव |
इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् || ६-३२-१७

पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ |
पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः || ६-३२-१८

दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् |
पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे || ६-३२-१९

किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे |
बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् || ६-३२-२०

संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया |
स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् || ६-३२-२१

कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर |
अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् || ६-३२-२२

कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु |
क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते || ६-३२-२३

अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः |
अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे || ६-३२-२४

प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् |
परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा || ६-३२-२५

स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते |
तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् || ६-३२-२६

सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् |
हृदयेन विदीर्णेन न भविष्यति राघव || ६-३२-२७

मम हेतोरनार्याया अवघः पार्थिवात्मजः |
रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः || ६-३२-२८

अहम् दाशरथेनोढा मोहात्स्वकुपांसनी |
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत || ६-३२-२९

मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् |
याहमद्येह शोचामि भार्या सर्वातिथेरपि || ६-३२-३०

साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः |
समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् || ६-३२-३१

शिरसा मे शिरसः च अस्य कायम् कायेन योजय |
रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः || ६-३२-३२

इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा |
भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा || ६-३२-३३

एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः |
अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः || ६-३२-३४

विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च |
न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् || ६-३२-३५

अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः |
तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो || ६-३२-३६

मानमस्ति महारा ज राजभावात् क्षमान्वित |
किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु || ६-३२-३७

एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् |
अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ || ६-३२-३८

स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः |
सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् || ६-३२-३९

अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् |
जगाम रावणस्य एव निर्याण समनन्तरम् || ६-३२-४०

राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः |
समर्थयाम् आस तदा राम कार्य विनिश्चयम् || ६-३२-४१

अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः |
अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः || ६-३२-४२

शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे |
समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् || ६-३२-४३

ततस् तथा इति प्रतिगृह्य तद् वचो |
स्तदैव दूताः सहसा महाद्बलम् |
समानयंसः चैव समागतम् च ते |
न्यवेदयन् भर्तरि युद्ध कान्क्षिणि || ६-३२-४४

त्रयस्त्रिंशः सर्गः ॥६-३३॥[सम्पाद्यताम्]

सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी ।
आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१

मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् ।
आश्वासयामास तदा सरमा मृदुभाषिणी ।। ६-३३-२

सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया ।
रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३

सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् ।
उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४

ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता ।
उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५

उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया ।
सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६
लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् ।
तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७

स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः ।
तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८

न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः ।
वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९

न च एव वानरा हन्तुम् शक्याः पादप योधिनः ।
सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१०

दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् ।
धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११
विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च ।
लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२
हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः ।
न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३

अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना ।
इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४

शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् ।
ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५

उत्तीर्य सागरम् रामः सह वानर सेनया ।
सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६

दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः ।
सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७

अनेन प्रेषिता ये च राक्षसा लघु विक्रमः ।
राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८

स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९

इति ब्रुवाणा सरमा राक्षसी सीतया सह ।
सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२०

दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् ।
उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१

सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका ।
भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२

कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः ।
तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३

तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः ।
आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४
वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः ।

शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५
रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् ।
सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६
प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् ।
वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७

घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् ।
हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८
उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् ।
सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९

श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् ।
रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३०
अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः ।
रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१

विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः ।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२

आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् ।
अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३

अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने ।
समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४

अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् ।
धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५

तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् ।
मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६

रावणम् समरे हत्वा नचिराद् एव मैथिलि ।
त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७

समागता त्वम् रामेण मोदिष्यसि महात्मना ।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८

गिरि वरम् अभितो अनुवर्तमानो ।
हय इव मण्डलम् आशु यः करोति ।
तम् इह शरणम् अभ्युपेहि देवि
दिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९

चतुस्त्रिंशः सर्गः ॥६-३४॥[सम्पाद्यताम्]

अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।
सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥

ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।
उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥

उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।
निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥

न हि मे क्रममाणाया निरालम्बे विहायसि ।
समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥

एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।
मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥

समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।
अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥

मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।
ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥

स हि माया बलः क्रूरो रावणः शत्रु रावणः ।
माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥

तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।
राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥

उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।
तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥

यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।
निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥

साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी ।
उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥

एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।
गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥

एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः ।
शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥

सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।
पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥

सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।
प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥

ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।
परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥

इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।
क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥

एवम् उक्ता तु सरमा सीतया वेपमानया ।
कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥

जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।
अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥

दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।
निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥

लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।
वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥

एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।
न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥

न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।
सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥

तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।
भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥

राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।
निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥

प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।
एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥

श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।
श्रुत्वा तु तम् वानर सैन्य शब्दम् ।
लन्का गता राक्षस राज भ्र्त्याः ।
नष्ट ओजसो दैन्य परीत चेष्टाः ।
श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥

पञ्चत्रिंशः सर्गः ॥६-३५॥[सम्पाद्यताम्]

तेन शन्ख विमिश्रेण भेरी शब्देन राघवः ।
उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥

तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः ।
मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥

अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः ।
सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥

जगत्पम्तापनः क्रूरोगर्हयन् राक्षसेश्वरः ।
तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥

यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् ।
भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥

तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् ।
ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥

रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् ।
विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥

स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे ।
सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥

स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥
हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥

न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ।
तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥

यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।
तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥

विरोधम् मा गमस् तेन सम्धिस् ते तेन रोचताम् ।
असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥

सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ ।
धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥

अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण ।
धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥

अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ।
तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥

अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे ।
स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥

विवर्धयति पक्षम् च सुराणाम् सुर भावनः ।
विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥

Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् ।
तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥

तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः ।
मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥

जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते ।
अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥

दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे ।
ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥

आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश ।
तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥

चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् ।
देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥६-३५-२३॥

मनुष्या वानरा  ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥

उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा ।
विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥

खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः ।
शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥

रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः ।
ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥

व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् ।
प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥

कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥

गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते ।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥

मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह ।
किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥

पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः ।
राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥

वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।
पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥

पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते ।
करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥

कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते ।
एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥

विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् ।
न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥

येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः ।
कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥

ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ।
इदम् वचस् तत्र निगद्य माल्यवन् ।
परीक्ष्य रक्षो अधिपतेर् मनः पुनः ।
अनुत्तमेषु उत्तम पौरुषो बली ।
बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥

षट्त्रिंशः सर्गः ॥६-३६॥[सम्पाद्यताम्]

तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।
न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥

स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।
अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥

हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।
पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥

मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।
समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥

रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।
हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥

वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।
त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥

प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।
पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥

आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।
किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥

वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।
पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥

द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।
स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥

द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।
एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥

यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।
रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥

स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।
प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥

एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।
व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥

जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।
माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥

रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।
लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥

व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।
दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥

पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।
व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥

उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।
स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥

राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् ।
मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥

एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।
मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥

विसर्जयाम् आस ततह् स मन्त्रिणो ।
विधानम् आज्नाप्य पुरस्य पुष्कलम् ।
जय आzइषा मन्त्र गणेन पूजितो ।
विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥

सप्तत्रिंशः सर्गः ॥६-३७॥[सम्पाद्यताम्]

नर वानर राजौ तौ स च वायु सुतः कपिः ।
जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥

अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।
सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥

गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।
अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥

इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।
सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥

कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।
नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥

तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।
वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥

अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।
गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥

भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।
विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥

सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।
राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥

पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।
दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥

इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।
पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥

नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।
राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥

युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।
उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥

विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।
बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥

एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।
मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥

गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।
हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥

विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।
इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥

एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।
परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥

एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।
रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥

लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥

रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।
कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥

षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।
पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥

सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।
अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥

समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।
तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥

व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।
रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥

शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।
पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥

प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।
अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥

दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।
हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥

प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।
दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥

विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।
परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥

तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।
उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥

निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।
वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥

राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।
न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥

एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।
वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥

वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।
अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥

आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।
स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥

सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।
रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥

ततस् तु रामो महता बलेन ।
प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।
प्रहृष्ट रूपो अभिजगाम लन्काम् ।
कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥

अष्टात्रिंशः सर्गः ॥६-३८॥[सम्पाद्यताम्]

स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति ।
लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ।। ६-३८-१
विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् ।
मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ।। ६-३८-२

सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् ।
अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ।। ६-३८-३

लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् ।
येन मे मरण अन्ताय हृता भार्या दुरात्मना ।। ६-३८-४
येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा ।
राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ।। ६-३८-५

यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे ।
यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ।। ६-३८-६

एको हि कुरुते पापम् काल पाज़ वज़म् गतः ।
नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ।। ६-३८-७

एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति ।
रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ।। ६-३८-८

पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः ।
सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ।। ६-३८-९
तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् ।

हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ।। ६-३८-१०
गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् ।
पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ।। ६-३८-११
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।
दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।। ६-३८-१२
एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् ।
ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ।। ६-३८-१३
अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् ।

ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ।। ६-३८-१४
ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् ।

ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ।। ६-३८-१५
लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् ।

प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ।। ६-३८-१६
ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् ।

ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ।। ६-३८-१७
मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् ।

ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ।। ६-३८-१८
पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते ।

ततः स रामो हरि वाहिनी पतिर् ।
विभीषणेन प्रतिनन्द्य सत्कृतः ।
सलक्ष्मणो यूथप यूथ सम्वृतः ।
सुवेल पृष्ठे न्यवसद् यथा सुखम् ।। ६-३८-१९

एकोनचत्वारिंशः सर्गः ॥६-३९॥[सम्पाद्यताम्]

ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।
लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।। ६-३९-१

सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।
दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।। ६-३९-२

चम्पक अशोक पुम्नाग साल ताल समाकुला ।
तमाल वन संचन्ना नाग माला समावृता ।। ६-३९-३
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।। ६-३९-४
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।
लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।। ६-३९-५
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः ।
शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।। ६-३९-६

गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।। ६-३९-७

तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।
वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।। ६-३९-८

नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।
रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।। ६-३९-९

नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।
कोकिल आकुल षण्डानि विहग अभिरुतानि च ।। ६-३९-१०
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।
कोणालक विघुष्टानि सारस अभिरुतानि च ।। ६-३९-११
विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।
हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।। ६-३९-१२

तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।
पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।। ६-३९-१३

अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।
सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।। ६-३९-१४

वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।
कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।। ६-३९-१५

कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।
अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।। ६-३९-१६

ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।। ६-३९-१७

शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।
समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।। ६-३९-१८
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।
श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।। ६-३९-१९
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।

निविष्टा तत्र शिखरे लन्का रावण पालिता ।। ६-३९-२०
दशयोजनविस्तीर्णा विंशद्योजनमायता ।

सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।
कान्चनेन च सालेन राजतेन च शोभिता ।। ६-३९-२१

प्रासादैश् च विमानैश् च लन्का परम भूषिता ।
घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।। ६-३९-२२

तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।
कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।। ६-३९-२३
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।
शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।। ६-३९-२४

मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।। ६-३९-२५
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् ।
नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ।। ६-३९-२६
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।
रावणस्य पुरीम् रामो ददर्श सह वानरैः ।। ६-३९-२७

ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८

ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।
प्रासाद मालाभिर् अलम्कृताम् च ।
पुरीम् महा यन्त्र कवाट मुख्याम् ।
ददर्श रामो महता बलेन ।। ६-३९-२९

चत्वारिंशः सर्गः ॥६-४०॥[सम्पाद्यताम्]

ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् |
उपारोहत्ससुग्रीवो हरियूथैः समन्वितः || ६-४०-१

स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् |
त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा || ६-४०-२
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् |

तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् || ६-४०-३
श्वेतचामरपर्यन्तं विजयच्चत्रशोभितम् |
रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् || ६-४०-४
वीलजीमूतसंकाशं हेमसंचादिताम्बरम् |
ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् || ६-४०-५
शशलोहितरागेण सम्वीतं रक्तवाससा |
संध्यातपेन संचन्नं मेघराशिमिवाम्बरे || ६-४०-६

पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः |
दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः || ६-४०-७

क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च |
अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले || ६-४०-८

स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना |
तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः || ६-४०-९

लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस |
न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा || ६-४०-१०

इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि |
आकृष्य मुकुटं चित्रं पातयामास तद्भुवि || ६-४०-११

समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः |
सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि || ६-४०-१२

इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले |
कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः || ६-४०-१३

परस्परं स्वेदविदिग्धगात्रौ |
परस्परम् शोणितरक्तदेहौ |
परस्परं श्लिष्टनिरुद्धचेष्टौ |
परस्परं शाल्मलिकिंशुकाविव || ६-४०-१४
मुष्टिप्रहारैश्च तलप्रहारै |
ररत्निघातैश्च कराग्रघातैः |
तौ चक्रतुर्युद्धमसह्यरूपं |
महाबलौ राक्षसवानरेन्द्रौ || ६-४०-१५

कृत्वा नियुद्धं भृशमुग्रवेगौ |
कालं चिरं गोपुरवेदिमध्ये |
उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ |
पादक्रमाद्गोपुरवेदिलग्नौ || ६-४०-१६

अन्योन्यमापीड्य विलग्नदेहौ |
तौ पेतुतुः पालनिखातमध्ये |
उत्पेततुर्भूमितलम् स्पृशन्तौ |
स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ || ६-४०-१७

आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः |
संयोजयामासतुराहवे तौ |
सम्रम्भशिक्षाबलसम्प्रयुक्तौ |
सुचेरतुः सम्प्रति युद्धमार्गे || ६-४०-१८

शार्दूलसिंहविव जातदंष्ट्रौ |
गजेन्द्रपोताविव संप्रयुक्तौ |
संहत्य संवेद्य च तौ कराभ्यां |
तऊ पेतुतुर्वै युगपद्धरायाम् || ६-४०-१९

उद्यम्य चान्योन्यमधिक्षिपन्तौ |
संचक्रमाते बहु युद्धमार्गे |
व्यायामशिक्षाबलसंप्रयुक्तौ |
क्लमं न तौ जग्मतुराशु वीरौ || ६-४०-२०

बाहुत्तमैर्वारणवारणाभै |
र्निवारयन्तौ परवारणाभौ|
चिरेण कालेन भृशं प्रयुद्धौ |
संचेरतुर्मण्डलमार्गमाशु || ६-४०-२१

तौ परस्पर मासाद्य यत्तावन्योन्यसूदने |
मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः || ६-४०-२२

मण्डलानि विचित्राणि स्थानानि विविधानि च |
गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च || ६-४०-२३
तीर्शीनगतान्येव तथा वक्रगतानि च |
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् || ६-४०-२४
अभिद्रवणमाप्लावमवस्थानं सविग्रहम् |
परावृत्तमपावृत्तमपद्रुतमवप्लुतम् || ६-४०-२५
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ |
तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः || ६-४०-२६

एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः |
आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः || ६-४०-२७
उत्पपात तदाकाशं जितकाशी जितक्लमः |
रावणः स्थित एवात्र हरिराजेन वञ्चितः || ६-४०-२८

अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति |
र्निशिचरपतिमाजौ योजयित्वा श्रमेण |
गगनमतिविशालं लङ्घयित्वार्कसूम |
र्हरिगणबलमध्ये रामपार्श्वं जगाम् || ६-४०-२९

स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा |
पवनगतिरनीकं प्राविशत्संप्रहृष्टः |
रघुवरनृपसूनोद्वर्धयन् युद्धहर्षं |
तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः || ६-४०-३०
"https://sa.wikiquote.org/w/index.php?title=युद्धकाण्ड&oldid=2736" इत्यस्माद् प्रतिप्राप्तम्