यूकाभियान्यः – अनाश्रयणन्यायः

विकिसूक्तिः तः

यूकाः सन्ति इति भयेन कोऽपि कम्बलमञ्चादिकाम् अनाश्रयेत् कविना किम् ? तथा अल्पकष्टेन संत्रस्तः लाभदायकं न परित्यजेत् इति भावः । एवमेव काव्यरचनायाः आस्वादं केचन कर्तुं न शक्नुवन्ति इति कारणेन काव्यरचना एव न करणीया किम् ? केचन रसिकाः तत् काव्यम् अवश्यमेव स्वीकुर्युः इति भावः । <poem> काव्ये शुभे विरचिते खलु नि खलेभ्यः कश्चिद् गुणो भवति यद्यपि संप्रतीह । कुर्याः तथापि सुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ॥ (सुभाषितम्)