येन रूपं रसं गंधं...

विकिसूक्तिः तः

येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनानि ।
एतेनैव विजानाति किमत्र परिशिष्यते ॥ - काठकोपनिषत् २-१-३

येन चैतन्येन नरः रूपं रसं गन्धं शब्दान् स्पर्शान् मैथुनानि च जानाति, स आत्मैव ‘अहम्’ इति विजानीयात् ॥

आत्मावबोधनकला हि अस्मिन् मन्त्रे उपदिश्यते । तद्यथा, प्रत्यहं सर्वः पुरुषः शब्दस्पर्शरूपरसगन्धादीन् विषयान्
अनुभवतीति हि सुप्रसिद्धम् । अयमनुभवः किंनिमित्तकः ? कथम् उत्पद्यते ? यतो हि, देहः अचेतनः, इन्द्रियाणि जडानि,
बुद्धिश्च अचिदात्मिका एव । तर्हि बाह्यान् रूपादीन् विषयान्, आन्तराणि सुखदुःखादीनि च को जानाति ? इति चेत्,
स एव आत्मा, प्रत्यगात्मा चायम् ॥

न हि देहादिसङ्घातः शब्दस्पर्शरूपरसगन्धादीन् जानीयात्, अचेतनत्वात् । सङ्घातविलक्षणेनैव आत्मना हि शब्दादयः
ज्ञायन्ते । आत्मचैतन्यागोचरः पदार्थो नाम न कश्चिदस्ति । चिन्मात्रस्वरूपोऽयमात्मा स्वयमेव इति जानीयात् । एषा
एव आत्मावबोधनकला नाम एतत्कलाभिज्ञ एव हि आत्मज्ञानी इति कथ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=येन_रूपं_रसं_गंधं...&oldid=16087" इत्यस्माद् प्रतिप्राप्तम्