योनिमन्ये प्रपद्यन्ते...

विकिसूक्तिः तः


मृत्युदेवतायाः ‘जागरण’वचनम्

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ - काठकोपनिषत् २-२-७

केचित् देहिनः शरीरत्वाय मनुष्ययोनिं प्रपद्यन्ते । अन्ये देहिनः
यथाकर्म यथाश्रुतं च स्थाणुम् अनुसंयन्ति ॥

अस्माकं भारतीय-वैदिक-संस्कृतौ जन्मान्तरास्तित्वम् अभ्युपगम्यते ।
कर्मानुसारेण जन्म प्रपद्यन्ते जीवाः । केवलेन आत्मज्ञानमात्रेण
जन्मान्तरप्राप्तिपरिहारो भवेत्, नान्यो मार्गः । पुण्यकर्मभिः उत्तमं
जन्म, पापकर्मभिः नीचं जन्म, पुण्यपापमिश्रणात् मनुष्यजन्म च
प्राप्यते । सर्वथा अज्ञानिनां पुनर्जन्म भवत्येव ॥

अस्मिन् जन्मनि कृतपुण्यपापकर्मणां मनुष्याणां तत्फलत्वेन आगामिनि
जन्मन्यपि मनुष्यजन्मैव प्राप्यते । तादृशाः मानवाः मनुष्ययोनिमेव प्रविशन्ति ।
ये तु अस्मिन् जन्मनि पाशवीं वृत्तिम् अनुसरन्तः राक्षसस्वभावाः पापकर्माणो
भवन्ति, तादृशाः मानवाः आगामिनि जन्मनि पशुपक्षिक्रिमिकीटादियोनिं वा
ओषधिवनस्पति वृक्षादियोनिं वा अश्मगिरिपर्वतादियोनिं वा प्रविशन्ति ।
जाग्रत, जाग्रत ! एवं हि मृत्युदेवतायाः धीरं जागरणवचनम् ॥