योऽप्सु तिष्ठन्, योऽग्नौ तिष्ठन्...

विकिसूक्तिः तः

अन्तर्यामिणः स्वरूपम्

योऽप्सु तिष्ठन्, योऽग्नौ तिष्ठन्, योऽन्तरिक्षे तिष्ठन्, यो वायौ तिष्ठन्,
यो दिवि तिष्ठन्, यः आदित्ये तिष्ठन्, यो दिक्षु तिष्ठन्, यश्चन्द्रमसि
तिष्ठन्, यस्तारके तिष्ठन्, यः आकाशे तिष्ठन्, यस्तमसि तिष्ठन्,
यस्तेजसि तिष्ठन्,…..अन्तरो यमयति, एष ते आत्मा अन्तर्यामी अमृतः । - बृहदारण्यकोपनिषत् ३-७-४ तः १४

यः अप्सु तिष्ठन्, अग्नौ तिष्ठन्, अन्तरिक्षे तिष्ठन्, यः वायौ तिष्ठन्, दिवि
तिष्ठन्, आदित्ये तिष्ठन्, दिक्षु तिष्ठन्, यः चन्द्रमसि तिष्ठन्, तारके तिष्ठन्,
आकाशे तिष्ठन्, यः तमसि तिष्ठन्, तेजसि तिष्ठन्, अन्तरः सन् सर्वान्
यमयति एषः ते आत्मा अन्तर्यामी अमृतः ॥

अन्तर्यामिस्वरूपस्य आत्मनः लक्षणम् अत्यन्तं सुन्दरतया अयं मन्त्रः उपदिशति ।
योऽसौ आत्मा आकाशादिपञ्चभूतानि, भूरादिसकललोकान्, सूर्यचन्द्रनक्षत्रादीनि च
स्वाधीनानि कुर्वन् स्वसामर्थ्येन यमयन्, तेषामन्तरो वसति, स एव अन्तर्यामी ।
प्रमाणागोचरः आत्मा ह्ययम् । परं ब्रह्मैव अन्तर्यामी इति कथ्यते ॥