यो ब्रह्माणं विदधाति पूर्वं...

विकिसूक्तिः तः

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ - श्वेताश्वतरोपनिषत् ६-१८

यः परमात्मा पूर्वं ब्रह्माणं विदधाति, यश्च ततः तस्मै सर्वान्
वेदान् प्रहिणोति, यश्च मुमुक्षुबुद्धिं प्रकाशयति, तं परमेश्वरम्
अहं शरणं प्रपद्ये ॥

प्रत्यहं वेदान्तभाष्यपाठस्य प्रारम्भे अस्य मन्त्रस्य पठनसम्प्रदायो
विद्यते । हिरण्यगर्भो ब्रह्मा एव भगवतः प्रप्रथमा सृष्टिः । अत
एव तस्य ब्रह्मणः प्रथमजः इति नाम । विराटपुरुषोऽपि अयमेव ।
अस्मिन् भगवान् वेदान् प्रकाशयति । अयमेव परमात्मा
अस्मास्वपि वसन् अस्माकं बुद्धिवृत्तीः प्रचोदयति । वेदवेदान्तानां
भगवानेव प्रथमाचार्यः । आत्मविद्यास्वरूपम् आत्मविद्याचार्यम्
आत्मविद्याप्रकाशम् ईश्वरं भक्त्या आराध्य, ईश्वरमेव प्रपद्यमानस्य
आश्रयमाणस्य जिज्ञासोः मुमुक्षोः आत्मज्ञानं मोक्षश्च नूनं लभ्यते
एव । तस्मात् मुमुक्षुसाधकः ईश्वरं भक्त्या शरणं व्रजेत् ॥