यो यस्य चित्ते वसति...

विकिसूक्तिः तः

सुभाषितम्

यो यस्य चित्ते वसति न सदूरे कदाचन ।

खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥ गर्गसंहिता माधुर्यखण्डः १/११




तात्पर्यम्

यः यस्य हृदये निवसति सः कदापि तस्मात् दूरे न तिष्ठति । यद्यपि सूर्यः आकाशे अस्ति कमलं तु भूमौ निवसति तथापि
सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति ) ।

"https://sa.wikiquote.org/w/index.php?title=यो_यस्य_चित्ते_वसति...&oldid=14987" इत्यस्माद् प्रतिप्राप्तम्