सामग्री पर जाएँ

यो वा एतदक्षरं गार्गि अविदित्वा...

विकिसूक्तिः तः

अयं हि कृपणः !
यो वा एतदक्षरं गार्गि अविदित्वा अस्मात् लोकात् प्रैति स कृपणः । - बृहदारण्यकोपनिषत् ३-८-१०

हे गार्गि, एतद् अक्षरम् अविदित्वा यः अस्मात् लोकात् प्रैति स कृपणः ।

कृपणो नाम लोभी, कृपणो नाम मूढः, कृपणो नाम वराकः, कृपणो नाम
अज्ञः, अविवेकी, बालः मूढः – इत्यर्थः । लोके सामान्यतः अनक्षरस्थं कृपणः
इति वदन्ति । धनी सन्नपि सत्पात्रे यः दानं न करोति तं जनाः कृपणः
इति मन्यन्ते । व्यवहारे अकुशलम् अज्ञं वदन्ति । परप्रयोजनाय यः
सदा खरवत् कर्मतत्परः तं वराकं वदन्ति लौकिकाः ॥

वेदान्तेषु पुनः नैवम् । अक्षरं विज्ञातुं सामर्थ्यवानपि मानवः यः न जानाति,
न च अवगन्तुं प्रयत्नमेव करोति तं ‘कृपणं ’ वदन्ति । परिपूर्णं परतत्त्वम्
अजानन् सदा केवलव्यवहारनिमग्नः सन् तावतैव सन्तृप्तः सन् यदा कदा वा
यो म्रियते सः नूनमपि कृपणः खलु ? स्वसम्पादितं सर्वमपि धनम् अत्रैव
विहाय आत्मानं च अविदित्वा रिक्तहस्तः यो गच्छति नासौ कृपणः किम् ?