यो वा एतामेवं वेद...

विकिसूक्तिः तः

यो वा एतामेवं वेद, अपहत्य पाप्मानम् । - केनोपनिषत् ४-९

आत्मतत्त्वं सम्यक् जानाति चेत्, सः पुण्यपापे अत्येति ।

यथाशास्त्रं पुण्यकर्माणि कृत्वा शुभानि फलानि प्राप्नोति । शास्त्रनिषिद्धानि पापानि कर्माणि
कृतानि चेत् अशुभमेव फलं प्राप्यते । तस्मात् मानवेन सदा पुण्यकर्माण्येव कर्तव्यानि, पापकर्माणि
च हातव्यानि इति पूर्वमीमांसादर्शनं तथा सकलशास्त्राणि पुराणानि च उपदिशन्ति । सत्यमेवैतत् ॥

वेदान्तेषु तु पुण्यपापे उभेऽपि कर्मणी ‘पाप’ शब्देनैव व्यपदिश्य एतत्पापपरिहाराय ‘राजमार्गः’ उपदिश्यते ।
पुण्यपापे उभेऽपि कर्मणी देहान्तरोत्पत्तौ हेतुत्वात् ‘बन्धके’ एव भवतः ॥

अज्ञानमेव हि पुण्यपापयोः हेतुः । अज्ञानादेव कामः, कामादेव च कर्माणि । तस्मात् आत्मज्ञानादेव
अज्ञानस्य नाशः । अज्ञाननिवृत्त्यै आत्मज्ञानमेकमेव रामबाणः । आत्मानम् अकर्तारम् अभोक्तारं यः
जानाति स एव आत्मवित् । विचारेण पुण्यपापसम्बन्धरहितम् आत्मानं विजानतः पुण्यपापे भस्मीभवतः ॥

"https://sa.wikiquote.org/w/index.php?title=यो_वा_एतामेवं_वेद...&oldid=16340" इत्यस्माद् प्रतिप्राप्तम्