रत्नैर्महार्हैस्तुतुषुर्न देवाः...

विकिसूक्तिः तः
Jump to navigation Jump to search

सुभाषितम्

रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥

ratnairmahārhaistutuṣurna dēvā na bhējirē bhīmaviṣēṇa bhītim ।
sudhām vinā na prayayurvirāmam na niścitārthādviramanti dhīrāḥ ॥

पदच्छेदः

रत्नैः, महार्हैः, तुतुषुः, न, देवाः, न, भेजिरे, भीमविषेण, भीतिम्, सुधा, विना, न, प्रययुः, विरामं, न, निश्चितार्थात्, विरमन्ति, धीराः ।


तात्पर्यम्

समुद्रमथनकाले देवाः प्रभूतरत्नराशिः प्राप्तश्चेदपि न सन्तुष्टाः । भयङ्करविषस्य उद्भवेऽपि न भीताः । अमृतप्राप्तिपर्यन्तं स्वप्रयत्नम् अकुर्वन् । एवं धीराः निश्चितफलप्राप्तिपर्यन्तं प्रयत्नं न त्यजन्ति, प्रयत्नरता एव भवन्ति ।


आङ्ग्लार्थः

Gods were not feel pleased with great jewels. (They) did not resort to (succumb to) fear even by frightful poison. (They) did not rest until they got nectar. Those who have capacity to stay focused do not rest away from predetermined objectives.